SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 10 ५८३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् इत्याह- यस्मात् परसमयोऽनर्थः इत्यादि, इत्थं चेह योजना कार्या-नास्ति परसमयवक्तव्यता, परसमयस्यानर्थत्वादहेतुत्वादित्यादि, अनर्थत्वं परसमयस्य नास्त्येवाऽऽत्मेत्यनर्थप्रतिपादकत्वात्, आत्मनास्तित्वस्य चानर्थत्वमात्माऽभावे तत्प्रतिषेधानुपपत्ते: । उक्तं च5 जो चिंतई सरीरे नत्थि अहं स इव(इध) होइ जीवो त्ति । न हु जीवम्मि असंते संसयउप्पायओ अण्णो ॥१॥ [ ] इत्याद्यन्यदप्यभ्यूह्यम् । अहेतुत्वं च परसमयस्य हेत्वाभासबलेन प्रवृत्तेः, यथा नास्त्येवाऽऽत्मा अत्यन्तानुपलब्धेः, हेत्वाभासश्चायम्, ज्ञानादेस्तद्गुणस्योपलब्धेः । उक्तं च नाणाईण गुणाणं अणुभवओ होइ जंतुणो सत्ता । जह रूवाइगुणाणं उवलंभाओ घडाईणं ॥१॥ [ इत्यादि प्रागेवोक्तमिति । असद्भावत्वं चैकान्तक्षणभङ्गाद्यसद्भूतार्थाभिधायकत्वात्, एकान्तक्षणभङ्गादेश्चासद्भूतत्वं युक्तिविरोधात्, तथाहि__धम्मा-ऽधम्मुवएसो कया-ऽकयं परभवाऽऽय-गमणं च । सव्वा वि हु लोयठिई न घडइ एगंतखणियम्मी ॥१॥ [ ] त्यादि । अक्रियात्वं चैकान्तशून्यताप्रतिपादनात्, सर्वशून्यतायां च क्रियावतोऽभावेन क्रियाया असम्भवात् । उक्तं च सव्वं सुन्नं ति जयं पडिवन्नं जेहि ते वि वत्तव्वा । सुन्नाभिहाणकिरिया वत्तुरभावेण कह घडई ॥१॥ [ ] त्यादि । उन्मार्गत्वं परस्परविरोध(धात्) स्थाण्वाद्याकुलत्वात् । तथाहिन हिंस्यात् सर्वभूतानि, सानि स्थावराणि च । आत्मवत् सर्वभूतानि, य: पश्यति स धार्मिकः ॥१॥ [ ] १. परभवाइग जे१ । परभवीइग पा२ ॥ २. विरोधो जेमू२ । विरोध जेमूर विना । 'परस्परविरोधात् खगाद्याकुलत्वात्' इति हारिभद्र्यां वृत्तौ पाठः ॥ 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy