________________
अनुयोगद्वारसूत्रम् [ सू० ५२५]
५८२ यतश्चैवमतो मिथ्यादर्शनम्, ततश्च मिथ्यादर्शनमिति कृत्वा, नास्ति परसमयवक्तव्यतेति वर्त्तते, एवं समयान्तरेष्वपि स्वबुद्ध्योत्प्रेक्ष्य योजना कार्या, तस्मात् सर्वा स्वसमयवक्तव्यता, नास्ति परसमयवक्तव्यतेति । अन्ये तु व्याचक्षतेपरसमयोऽनर्थादिः, दर्णयरूपत्वाद्, यथाभूतस्त्वसौ विद्यते प्रतिपक्षसापेक्षस्तथाभूत: स्याद्वादाङ्गत्वात् स्वसमय एवेति । उक्तं च
नयास्तव स्यात्पदलाञ्छिता इमे रसोपविद्धा इव लोहधातवः ।
भवन्त्यभिप्रेतगुणा यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥१॥ [बृहत्स्वयम्भूस्तोत्रे] इत्यादि ।
आह - न खलु अनेकान्त एव मतममीषां शब्दादीनां तत् कथमेवं व्याख्यायते? इति, उच्यते-विवादस्तद्विषय:, शुद्धनयाश्चैते भावप्रधानाः, तद्भावश्चेत्थमेवेति न दोषः। 10 सेयं वक्तव्यतेति निगमनम् । उक्ता वक्तव्यता ।
हे० ५२५] अथ वक्तव्यतामेव नयैर्विचारयन्नाह- इयाणिं को नओ इत्यादि, तत्र नैगम-व्यवहारौ त्रिविधामपि वक्तव्यतामिच्छतः, नैगमस्यानेकगमत्वाद् व्यवहारस्य तु लोकव्यवहारपरत्वात्, लोके च सर्वप्रकाराणां रूढत्वादिति भावः । ऋजुसूत्रस्तु विशुद्धतरत्वादाद्यामेव द्विविधां वक्तव्यतामिच्छति, स्वपरसमयवक्तव्यतानभ्युपगमे 15 युक्तिमाह - तत्थ णं जा सा इत्यादि, तृतीये वक्तव्यताभेदे याऽसौ स्वसमयवक्तव्यता गीयते सा स्वसमयं प्रविष्टा, प्रथमे वक्तव्यताभेदे अन्तर्भूता इत्यर्थः, या तु परसमयवक्तव्यता सा परसमयं प्रविष्टा, द्वितीये वक्तव्यताभेदे अन्तर्भाविता इत्यर्थः, ततश्चोभयरूपवक्तव्यताया: प्रस्तुतनयमतेऽसत्त्वात् द्विविधैव वक्तव्यता, न त्रिविधेति । सङ्ग्रहस्तु सामान्यवादिनैगमान्तर्गतत्वेन विवक्षितत्वात् सूत्रगतिवैचित्र्याद्वा न पृथगुक्त 20 इति । त्रयः शब्दनया: शब्द-समभिरूद्वैवम्भूताः शुद्धतमत्वादेका स्वसमयवक्तव्यतामिच्छन्ति, नास्ति परसमयवक्तव्यता इति मन्यन्ते । कस्मात् ?
१. 'मथ मिथ्या प्र० ॥ २. स्यात्पदसत्यलांछिता रसोप' जेमूर वामू०॥ ३. विवा... स्त' जे१, २ विवादस्त वासं० ॥
Jain Education International
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org