________________
५८१ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् दहेतुत्वादित्येवमादयः । तत्र कथमनर्थः ? इति नास्त्येवाऽऽत्मेत्यनर्थप्ररूपकत्वात्, अनर्थत्वं चास्य आत्माऽभावे प्रतिषेधानुपपत्तेः, उक्तं च
]
जो चिंतेइ सरीरे णत्थि अहं स इध होइ जीवो त्ति । हु जीवम्मि असंते संसयउप्पायओ अण्णो ॥१॥ [ अहेतु:, हेत्वाभासेन प्रवृत्तेः, यथा - नास्त्येवाऽऽत्मा अत्यन्तानुपलब्धेः, हेत्वाभासत्वं चास्य ज्ञानादितद्गुणोपलब्धेः । उक्तं चज्ञानानुभवतो दृष्टस्तद्गुण्यात्मा कथञ्चन ।
गुणदर्शनरूपं तु घटादिष्वपि दर्शनम् ||१|| [
]
असद्भाव:, असद्भावाभिधानात्, असद्भावाभिधानं चाऽऽत्मप्रतिषेधेनोक्तत्वात् । 10 स्यादेतत्, सर्वगतत्वादिधर्मणोऽसत्त्वं रूपादिस्कन्धसमुदायात्मकस्य तु सद्भाव एवेति, न, तस्य [भ्रान्तिरूपत्वात्,] भ्रान्तिमात्रत्वाभ्युपगमश्च फेनपिण्डोपमं रूपं वेदना बुद्बुदोपमा ।
मरीचिसदृशी संज्ञा संस्काराः कदलीनिभाः ||१॥
मायोपमं च विज्ञानमुक्तमादित्यबन्धुना ॥ [ ] इत्यादि ।
अक्रिया, क्षणिकैकान्ताऽभ्युपगमेन कर्मबन्धक्रियाऽभावप्रतिपादकत्वाद् । उक्तं चउत्पन्नस्यानवस्थानादभिसन्ध्याद्ययोगतः ।
5
15
20
हिंसाऽभावान्न बन्धः स्यादुपदेशो निरर्थकः ||१|| [ ] इत्यादि । उन्मार्गः परस्परविरोधात् खगाद्याकुलत्वात्, तदाकुलत्वं चैकान्तक्षणिकत्वेऽपि हिंसाभ्युपगमाद् । उक्तं च तत्र
प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा || १॥ [ अनुपदेशः, अहितप्रवर्त्तकत्वाद्, उक्तं चसर्वं क्षणिकमित्येतद् ज्ञात्वा को न प्रवर्त्तते ।
विषयादौ, विपाको मे न भावीति दृढव्रतः ॥ १॥ [ ] इत्यादि ।
१. तुलना - " अरण्यमेतत् सविताऽस्तमागतो न चाधुना संभवतीह मानवः । प्रायस्तदेतेन खगादिभाजा भाव्यं स्मराराति समाननाम्ना ||१|| ” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ गा० २८९ ।
"
Jain Education International
-
For Private & Personal Use Only
] इत्यादि ।
www.jainelibrary.org