________________
५७५ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम्
[ हा० ५२०] से किं तं भावसंखा इत्यादि, प्राकृतशैल्याऽत्र सं ( शं? ) खा: परिगृह्यन्ते, आह च- य एते इति प्ररूपकप्रत्यक्षा लोकप्रसिद्धा वा जीवा आयुः प्राणादिमन्तः सं ( शं) खगतिनाम - गोत्राणि तिर्यग्गति - द्वीन्द्रियौदारिकशरीराङ्गोपाङ्गादीनि नीचेतरगोत्रलक्षणानि कर्माणि तद्भावापन्ना विपाको (के) वेदयन्ति त 5 एव भावसं ( शं) खा इति । उक्ता भावसं ( शं) खा: । सेत्तमित्यादि निगमनत्रयम् । समाप्तं प्रमाणद्वारम् ।
[ हे० ५२०] अथ भावसङ्ख्यानिरूपणार्थमाह- से किं तं भावसंखा इत्यादि, इह संख्या (खा) शब्देन प्रागुक्तयुक्त्या शङ्खाः परिगृह्यन्ते, अत एव नामस्थापनादिबहुविचारविषयत्वात् सङ्ख्याप्रमाणं गुणप्रमाणात् पृथगुक्तम्, अन्यथा 10 सङ्ख्याया अपि गुणत्वात् गुणप्रमाण एवान्तर्भावः स्यादिति । तत्र भावशङ्खस्वरूपं दर्शयितुमाह- जे इमे इत्यादि, ये इमे प्रज्ञापकप्रत्यक्षा लोकप्रसिद्धा वा जीवाः आयुः प्राणादिमन्तः संखगतिनामगोयाई ति शङ्खगतिनामशब्देनेह शङ्खप्रायोग्यं तिर्यग्गतिनाम गृह्यते, तस्य चोपलक्षणार्थत्वाद् द्वीन्द्रियजात्यौदारिकशरीराङ्गोपाङ्गादीन्यपि गृह्यन्ते, ततश्च शङ्खप्रायोग्यं तिर्यग्गत्यादिनामकर्म नीचैर्गोत्रलक्षणं गोत्रकर्म च विपाको 15 वेदयन्ति ये जीवास्त एते भावशङ्खाः प्रोच्यन्ते । तदेवं समाप्तं सङ्ख्याप्रमाणम्, अतो निगमयति- सेत्तं संखप्पमाणे ति । तत्समाप्तौ चावसितं भावप्रमाणमित्याह - सेत्तं भावप्पमाणे ति । एतदवसाने च निःशेषितं प्रमाणद्वारमित्युपसंहरति- सेत्तं पमाणे त्ति । प्रमाणद्वारं समाप्तम् ।
[सू० ५२९] से किं तं वत्तव्वया ? वत्तव्वया तिविहा पण्णत्ता ।
20 तं०-ससमयवत्तव्वया परसमयवत्तव्वया ससमयपरसमयवत्तव्वया । [सू० ५२२] से किं तं ससमयवत्तव्वया ? ससमयवत्तव्वया - जत्थ णं ससमए आघविज्जति पण्णविज्जति परूविज्जति दंसिज्जति निदंसिजति उवदंसिज्जति । सेतं ससमयवत्तव्वयों
[सू०५२३] से किं तं परसमयवत्तव्वया ? परसमयवत्तव्वया
Jain Education International
For Private & Personal Use Only
जत्थ
www.jainelibrary.org