________________
अनुयोगद्वारसूत्रम् [ सू० ५२०]
५७४ अन्ये त्वाचार्याः प्रतिपादयन्ति- जघन्यमनन्तानन्तकं वारात्रयं पूर्ववद् वर्ग्यते, ततश्चैते षडनन्तकप्रक्षेपाः प्रक्षिप्यन्ते । तद्यथा -
सिद्धा १ निओयजीवा २ वणस्सई ३ काल ४ पोग्गला ५ चेव । सव्वमलोगागासं ६ छप्पेतेऽणंतपक्खेवा ॥१॥ [ ]
अयमर्थ:- सर्वे सिद्धा: १, सर्वे सूक्ष्मबादरनिगोदजीवा: २, प्रत्येकानन्ता: सर्वे 5 वनस्पतिजन्तव: ३, सर्वोऽप्यतीतानागतवर्तमानकालसमयराशि: ४, सर्वपुद्गलद्रव्यसमूहः ५, सर्वोऽलोकाकाशप्रदेशराशि: ६, एते च प्रत्येकमनन्तस्वरूपा: षट् प्रक्षेपाः, एतैश्च प्रक्षिप्तैर्यो राशिर्जायते स पुनरपि वारात्रयं पूर्ववद्वय॑ते, तथाऽप्युत्कृष्टमनन्तानन्तकं न भवति, ततश्च केवलज्ञान-केवलदर्शनपर्याया: प्रक्षिप्यन्ते, एवं च सत्युत्कृष्टमन्तानन्तकं संपद्यते, सर्वस्यैव वस्तुजातस्य सङ्ग्रहीतत्वात्, अतः परं वस्तुसत्त्वस्यैव 10 सङ्ख्याविषयस्याभावादिति भावः ।
सूत्राभिप्रायतस्त्वित्थमप्यनन्तानन्तकमुत्कृष्टं न प्राप्यते, अजघन्योत्कृष्टस्थानानामेव तत्र प्रतिपादितत्वादिति, तत्त्वं तु केवलिनो विदन्तीति । सूत्रे च यत्र क्वचित् अनन्तानन्तकं गृह्यते तत्र सर्वत्राजघन्योत्कृष्टं द्रष्टव्यम् । तदेवं प्ररूपितमनन्तकम्, तत्प्ररूपणे च समाप्ता गणनसङ्ख्या ।
15 [सू० ५२०] से किं तं भावसंखा ? भावसंखा- जे इमे जीवा संखगइनाम-गोत्ताई कम्माइं वेदेति । सेतं भावसंखा। सेतं संखप्पमाणे। सेतं भावप्पमाणे । सेतं पमाणे । पमाणे त्ति पयं सम्मत्तं ॥
[चू० ५२०] इदाणिं भावसंखा- से किं तं भावसंखा इत्यादि । जे इति अणिद्दिट्टणिद्देसे, झे त्ति परूवकणाणिणो पच्चक्खभावे लोगप्रसिद्धितो वा 20 पच्चक्खभावे, जीवणभावभवट्ठिया, जीवा, ते य जलचरा लोगाभिधाणप्पसिद्धा संखा, जं ते तिरियगतिणामं बेतिंदियजातिणामं ओरालियसरीरअंगोवंग-वण्ण-गंधरस-फासेवमादि, गोत्तं उच्चाइयं, एवमादिकम्मभावभाववेदका जीवा भावसंखा भण्णंति। उक्तं प्रमाणम् ।
*. 'भावाभाव जे२ विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org