________________
अनुयोगद्वारसूत्रम् [ सू० ५०९-५१४]
५६८ गुण्यत इति तात्पर्यम्, एवं च कृते यो राशिर्भवति स एकेन रूपेणोन: उत्कृष्टं युक्तासङ्ख्येयकं भवति । यदि पुनस्तदपि रूपं गण्यते तदा जघन्यमसङ्ख्येयासङ्ख्येयकं जायते, अत एवाह- अहवा जहण्णयं असंखेज्जासंखेज्जयं रूवूणमित्यादि गतार्थम् ।
उक्तं युक्तासङ्ख्येयकं त्रिविधम्, इदानीमसङ्ख्येयासङ्ख्येयकं त्रिविधं 5 बिभणिषुराह- जहण्णयं असंखेज्जासंखेज्जयं कित्तियमित्यादि, इदं तु सूत्रं भावितार्थमेव, नवरं पडिपुण्णो त्ति परिपूर्णः, रूपं न पात्यत इत्यर्थः । अहवेत्याद्यपि गतार्थम् । तेण परमित्यादि, ततः परमसङ्ख्येयासङ्ख्येयकस्य असङ्ख्येयान्यजघन्योत्कृष्टस्थानानि भवन्ति यावदुत्कृष्टमसङ्ख्येयासङ्ख्येयकं न प्राप्नोति । अत्र विनेय: प्रश्नयति- उक्कोसयं असंखेज्जासंखेजयं केत्तियमित्यादि। अत्रोत्तरम्- 10 जहण्णयं असंखेज्जासंखेज्जयमित्यादि, जघन्यमसङ्ख्येयासंख्येयकं यावद् भवतीति शेषः, तावत्प्रमाणानां जघन्यासंख्येयासंख्येयकमात्राणां जघन्यासंख्येयासंख्येकरूपसङ्ख्यानामित्यर्थः, राशीनामन्योन्यमभ्यास: परस्परं गुणनास्वरूप: एकेन रूपेणोन: उत्कृष्टमसङ्ख्येयासङ्खयेयकं भवति । अयमत्र भावार्थ:- प्रत्येक जघन्यासङ्ख्येयासङ्ख्येयकरूपा जघन्यासङ्खयेयासङ्ख्येयक एव यावन्ति रूपाणि भवन्ति 15 तावन्तो राशयो व्यवस्थाप्यन्ते, तैश्च परस्परगुणितैर्यो राशिर्भवति स एकेन रूपेण हीन: उत्कृष्टमसङ्खये यासङ्खयेयकं प्रतिपत्तव्यम्, उदाहरणं चात्राप्युत्कृष्टपरीतासङ्ख्येयकोक्तानुसारेण वाच्यम्, अत्र च यदेकं रूपं पातितं तदपि यदि गण्यते तदा जघन्यं परीतानन्तकं संपद्यते, अत एवेत्थं निर्दिशति- अहवा जहण्णयं परित्ताणतयमित्यादि गतार्थमेव, इत्येकीयाचार्यमतं तावद्दर्शितम् ।।
अन्ये त्वाचार्या उत्कृष्टमसङ्ख्येयासङ्ख्येयकमन्यथा प्ररूपयन्ति, तथाहिजघन्यासङ्ख्येयासङ्ख्येयकराशेर्वर्ग: क्रियते, तस्यापि वर्गराशेः पुनर्वर्गो विधीयते, तस्यापि वर्गवर्गराशेः पुनरपि वर्गो निष्पाद्यते, एवं च वारात्रयं वर्गे कृतेऽन्येऽपि प्रत्येकमसङ्ख्येयस्वरूपा दश राशयस्तत्र प्रक्षिप्यन्ते, तद्यथा
लोगागासपएसा १ धम्मा-ऽधम्मेगजीवदेसा य २-३-४ । दव्वट्ठिया निओया ५ पत्तेया चेव बोद्धव्वा ६ ॥१॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org