________________
५६९ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम्
1
ठिइबंधज्झवसाणा ७ अणुभागा ८ जोगछेयपलिभागा ९ । दोह य समाण समया १० असंखपक्खेवया दस उ ||२|| [ इदमुक्तं भवति- लोकाकाशस्य यावन्तः प्रदेशाः १ तथा धर्मास्तिकायस्य २ अधर्मास्तिकायस्य ३ एकस्य च जीवस्य ४ यावन्तः प्रदेशाः । दव्वट्टिया निओय 5 त्ति सूक्ष्माणां बादराणां चानन्तकायिकवनस्पतिजीवानां शरीराणीत्यर्थ: ५, पत्तेया चेव त्ति अनन्तकायिकान् वर्जयित्वा शेषाः पृथिव्यप्तेजोवायुवनस्पतित्रसाः प्रत्येकशरीरिणः सर्वेऽपि जीवा इत्यर्थः ६, ते चासङ्ख्येया भवन्ति । ठिइबंधज्झवसाण त्ति स्थितिबन्धस्य कारणभूतानि अध्यवसायस्थानानि स्थितिबन्धाध्यवसायस्थानानि तान्यप्यसङ्ख्येयान्येव, तथाहि- ज्ञानावरणस्य जघन्योऽन्तर्मुहूर्तप्रमाणः स्थितिबन्धः, उत्कृष्टस्तु त्रिंशत्सागरोपम10 कोटीकोटिप्रमाणः, मध्यमपदे त्वेक - द्वि-त्रि- चतुरादिसमयाधिकान्तर्मुहूर्तादिकोऽसङ्ख्येयभेदः, एषां च स्थितिबन्धानां निर्वर्तकानि अध्यवसायस्थानानि प्रत्येकं भिन्नान्येव, एवं च सत्येकस्मिन्नपि ज्ञानावरणेऽसङ्ख्येयानि स्थितिबन्धाध्यवसायस्था लभ्यन्ते, एवं दर्शनावरणादिष्वपि वाच्यमिति ७ । अणुभाग त्ति अनुभागाः, ज्ञानावरणादिकर्मणां जघन्य - मध्यमादिभेदभिन्ना रसविशेषाः, एतेषां चानुभागविशेषाणां 15 निर्वर्तकान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्ति अतोऽनुभागविशेषा अप्येतावन्त एव द्रष्टव्याः, कारणभेदाश्रितत्वात् कार्यभेदानाम् ८ । जोगच्छेयपलिभाग त्ति योगो मनोवाक्कायविषयं वीर्यं तस्य केवलिप्रज्ञाच्छेदेन प्रतिविशिष्टा निर्विभागा भागा योगच्छेदप्रतिभागाः, ते च निगोदादीनां संज्ञिपञ्चेन्द्रियपर्यन्तानां जीवानामाश्रिताः जघन्यादिभेदभिन्ना असङ्ख्या मन्तव्याः ९ । दुह य समाण समय त्ति द्वयोश्च समयो: उत्सर्पिण्यवसर्पिणीकालस्वरूपयोः समया: असङ्खयेयस्वरूपाः १० । एवमेते प्रत्येकमसङ्खयेयस्वरूपाः दश प्रक्षेपाः पूर्वोक्ते वारात्रयवर्गिते राशौ प्रक्षिप्यन्ते, इत्थं च यो राशि: पिण्डितः संपद्यते स पुनरपि पूर्ववद्वारात्रयं वर्ग्यते, ततश्च एकस्मिन् रूपे पातिते उत्कृष्टासङ्ख्येयासङ्ख्येयकं भवति । उक्तं नवविधमप्यसङ्ख्येयकम् ।
[सू० ५१५] जहण्णयं परित्ताणंतयं केत्तियं होति ? जहण्णयं
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org