________________
५६७ आ.श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् राशीनामन्योन्यमभ्यासः परस्परं गुणनास्वरूप एकेन रूपेणोन उत्कृष्टं परीतासङ्ख्येयकं भवति । इदमत्र हृदयम् - प्रत्येकं जघन्यपरीतासङ्ख्येयक एव यावन्ति रूपाणि भवन्ति तावन्तः पुञ्जा व्यवस्थाप्यन्ते, तैश्च परस्परगुणितैर्यो राशिर्भवति, स एकेन रूपेण हीन उत्कृष्टं परीतासङ्ख्येयकं मन्तव्यम् । अत्र सुखप्रतिपत्त्यर्थमुदाहरणं दर्श्यते5 जघन्यपरीतासङ्ख्येयके किलासत्कल्पनया पञ्च रूपाणि संप्रधार्यन्ते, ततः पञ्चैव वारा: पञ्च पञ्च व्यवस्थाप्यन्ते, तद्यथा ५५५५५, अत्र पञ्चभिः पञ्च गुणिता: पञ्चविंशतिः, सा च पञ्चभिराहता जातं पञ्चविंशं शतमित्यादिक्रमेणामीषां राशीनां परस्पराभ्यासे जातानि पञ्चविंशत्यधिकान्येकत्रिंशच्छतानि, एतत्प्रकल्पनया एतावन्मानः सद्भावतस्त्वसङ्ख्येयरूपो राशिरेकेन रूपेण हीन उत्कृष्टं परीतासङ्ख्येयकं संपद्यते, 10 यदा तु तदप्यधिकं रूपं गण्यते तदा जघन्यं युक्तासंख्येयकं जायते, अत एवाह- अहवा जहणणयं जुत्तासंखेज्जयमित्यादि । अनन्तरोक्ताद्धि युक्तासंख्येयकादेकस्मिन् रूपे समाकर्षित उत्कृष्टं परीतासंख्येयकं निष्पद्यते इति प्रतीयते एवेति ।
उक्तं जघन्यादिभेदभिन्नं त्रिविधं परीतासङ्ख्येयकम्, अथ तावद्भेदभिन्नस्यैव युक्तासङ्ख्येयकस्य निरूपणार्थमाह- जहण्णयं जुत्तासंखेज्जयं कित्तियमित्यादि । 15 अत्रोत्तरं जहण्णयं परित्तासंखेज्जयमित्यादि, व्याख्या पूर्ववदेव, नवरम् अन्नमन्नब्भासो पडिपुन्नो त्ति अन्योन्याभ्यस्तः परिपूर्ण एव राशिरिह गृह्यते, न तु रूपं पात्यत इति भावः [ग्र० ५००० ] | अहवा उक्कोसए परित्तासंखेज्जए इत्यादि भावितार्थमेव । आवलिया वि तत्तिया चेव त्ति, यावन्ति जघन्ययुक्तासङ्ख्येयके सर्षपरूपाणि प्राप्यन्ते आवलिकायामपि तावन्तः समया भवन्तीत्यर्थः, तत्र सूत्रे 20 यत्रावलिका गृह्यते तत्र जघन्ययुक्तासङ्ख्येयकतुल्यसमयराशिमानाऽसौ द्रष्टव्या । तेण परमित्यादि, ततो जघन्ययुक्तासङ्ख्येयकात् परतः एकोत्तरया वृद्ध्या असङ्खयेयान्यजघन्योत्कृष्टानि युक्तासङ्ख्येयकस्थानानि भवन्ति यावदुत्कृष्टं युक्तासङ्ख्येयकं न प्राप्नोति । अत्र शिष्यः पृच्छति- उक्कोसयं जुत्तासंखेज्जयमित्यादि । अत्र प्रतिवचनम्- जहण्णएणमित्यादि, जघन्येन युक्तासङ्ख्येयकेनावलिकासमयराशिर्गुण्यते, 25 किमुक्तं भवति ? अन्योन्यमभ्यासः क्रियते, जघन्ययुक्तासङ्ख्येयकराशिस्तेनैव राशिना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org