________________
अनुयोगद्वारसूत्रम् [ सू० ५०७-५०८]
५५८ एवइए खेत्ते पल्ले त्ति, यावन्तो द्वीप-समुद्रास्तै: सर्षपैः अप्फुण्णत्ति व्याप्ता इत्यर्थः, एतदेतावत्प्रमाणं क्षेत्रमनवस्थितपल्य: सर्षपभृतो बुद्ध्या परिकल्प्यत इत्यर्थः, तत: किमित्याह- पढमा सलाग त्ति, तत: शलाकापल्ये प्रथमशलाका एक: सर्षप: प्रक्षिप्यत इत्यर्थः, एवइयाणं सलागाणं असंलप्पा लोगा भरिय त्ति लोक्यन्ते केवलिना दृश्यन्त इति लोकाः, व्याख्यानादिह वक्ष्यमाणशलाकापल्यरूपा गृह्यन्ते, ते 5 चैक-दश-शत-सहस्र-लक्ष-कोटिप्रकारेण संलपितुमशक्या असंलप्या:, अतिबहव इत्यर्थः, यथोक्तशलाकानामसत्कल्पनया भृता: पूरितास्तथाप्युत्कृष्टं सङ्ख्येयकं न प्राप्नोति, आकण्ठपूरिता अपि हि लोकरूढ्या भृता उच्यन्ते, न चैतावतैवोत्कृष्टं सङ्ख्येयकं संपद्यते, किन्तु यदा सप्रशिखतया तथा ते भ्रियन्ते यथा नैकोऽपि सर्षपस्तत्रापरो माति तदा तद् भवतीति भाव: । ननु सप्रशिखतया सर्वथा अभृतमपि लोके किं 10 भृतमुच्यते ? सत्यम्, प्रोच्यत एव, तथा चात्रार्थे दृष्टान्तं दिदर्शयिषुराह- यथा को दृष्टान्त: ? इति शिष्येण पृष्टे सत्युत्तरमाह- तद्यथानाम कश्चिन्मञ्च: स्यात्, स चामलकानां भृत इति शिखामन्तरेणापि लोकेन व्यपदिश्यते, अथ च तत्रैकमामलकं प्रक्षिप्तं तन्मातमपरमपि प्रक्षिप्तं तदपि मातमन्यदपि प्रक्षिप्तं तदपि मातमेवमपरापरैः प्रक्षिप्यमाणैः भविष्यति तदामलकं येनासौ मञ्चो भरिष्यते, यच्च तदुत्तरकालं तत्र मञ्चे 15 न मास्यति, इत्थं चात्राप्यपरापरैर्यथोक्तशलाकारूपैः प्रक्षिप्तैर्यदा संलपितुमशक्या अतिबहवः सप्रशिखा: पल्या असत्कल्पनया भृता भवन्ति तदोत्कृष्टं सङ्ख्येयकं भवतीत्यध्याहारो द्रष्टव्य इति तावदक्षरार्थ: । भावार्थस्त्वयम् - पूर्वनिदर्शितस्वरूपादनवस्थितपल्यादपरेऽपि जम्बूद्वीपप्रमाणा योजनसहस्रावगाढास्त्रयः पल्या बुद्ध्या कल्प्यन्ते, तत्र प्रथम: शलाकापल्यो द्वितीय: प्रतिशलाकापल्यस्तृतीयो 20 महाशलाकापल्य:, तत्रानवस्थितपल्यो भृत: शलाकापल्ये च प्रथमा शलाका प्रक्षिप्तेति पूर्वमादर्शितम्, तदनन्तरं पुनरप्यनवस्थितपल्यसर्षपा: समुत्क्षिप्यैको द्वीपे एक: समुद्रे इत्येवं प्रक्षिप्यन्ते, तैश्च निष्ठितै: शलाकापल्ये द्वितीया शलाका प्रक्षिप्यते, सर्षपाश्च प्रक्षिप्यमाणा यत्र द्वीपे समुद्रे वा निष्ठितास्तत्पर्यवसान: पूर्वेण सह बृहत्तरोऽनवस्थितपल्य: सर्षपभृत: परिकल्प्यते, अत एवायमनवस्थितपल्य उच्यते, अवस्थितरूपाभावात्, पुन: 20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org