________________
५५९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् सोऽप्युत्क्षिप्यैकैकसर्षपक्रमेण द्वीप-समुद्रेषु प्रक्षिप्यते, शलाकापल्ये च तृतीया शलाका प्रक्षिप्यते, ते च सर्षपा: प्रक्षिप्यमाणा यत्र द्वीपे समुद्रे वा निष्ठितास्तत्पर्यवसान: पूर्वेण सह बृहत्तमोऽनवस्थितपल्य: सर्षपभृत: परिकल्प्यते, पुन: सोऽप्युत्क्षिप्य तेनैव क्रमेण द्वीप-समुद्रेषु प्रक्षिप्यते, शलाकापल्ये च चतुर्थी शलाका प्रक्षिप्यते, एवं यथोत्तरं 5 वृद्धस्यानवस्थितपल्यस्य भरण-रिक्तीकरणक्रमेण तावद्वाच्यं यावदेकैकशलाकाप्रक्षेपेण
शलाकापल्यो भ्रियते, अपरां शलाकां न प्रतीच्छति, ततोऽनवस्थितपल्यो भूतोऽपि नोत्क्षिप्यते, किन्तु शलाकापल्य एवोध्रियते, अयमप्यनवस्थितपल्याक्रान्तक्षेत्रात् परत एकै कसर्षपक्रमेण द्वीप-समुद्रेषु प्रक्षिप्यते, यदा च निष्ठितो भवति तदा
प्रतिशलाकापल्यलक्षणे तृतीये पल्ये प्रथमा प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्य: 10 समुत्क्षिप्य शलाकापल्ये निष्ठास्थानात् परतस्तेनैव क्रमेण निक्षिप्यते, निष्ठिते च तस्मिन्
शलाकापल्ये शलाका प्रक्षिप्यते, इत्थं पुनरप्यनवस्थितपल्यपूरण-रेचनक्रमेण शलाकापल्य: शलाकानां भ्रियते, ततोऽनवस्थित-शलाकापल्ययोर्भूतयो: शलाकापल्य एवोत्क्षिप्य पूर्वोक्तक्रमेणैव निक्षिप्यते, प्रतिशलाकापल्ये च द्वितीया प्रतिशलाका
प्रक्षिप्यते, ततोऽनवस्थितपल्य: समुद्धृत्य शलाकापल्यनिष्ठास्थानात् परतस्तेनैव न्यायेन 15 प्रक्षिप्यते, शलाकापल्ये च शलाका प्रक्षिप्यते, एवमनवस्थितपल्यस्योत्क्षेप-प्रक्षेपक्रमेण
शलाकापल्य: शलाकानां भरणीय:, शलाकापल्यस्य तूत्क्षेप-प्रक्षेपविधिना प्रतिशलाकापल्यः प्रतिशलाकानां पूरणीयः, यदा च प्रतिशलाकापल्य: शलाकापल्योऽनवस्थितपल्यश्च त्रयोऽपि भृता भवन्ति तदा प्रतिशलाकापल्य एवोत्क्षिप्य
द्वीप-समुद्रेषु तथैव प्रक्षिप्यते, निष्ठिते च तस्मिन् महाशलाकापल्ये प्रथमा महाशलाका 20 प्रक्षिप्यते, तत: शलाकापल्य उत्क्षिप्य तथैव प्रक्षिप्यते, प्रतिशलाकापल्ये च प्रतिशलाका
प्रक्षिप्यते, ततोऽनवस्थितपल्य उत्क्षिप्य तथैव प्रक्षिप्यते, शलाकापल्ये च शलाका प्रक्षिप्यते, एवमनवस्थितपल्योत्क्षेप-प्रक्षेपक्रमेण शलाकापल्यो भरणीय:, शलाकापल्योद्धरण-विकिरणविधिना प्रतिशलाकापल्य: पूरणीयः, प्रतिशलाका
पल्योत्पाटन-प्रक्षेपणाभ्यां महाशलाकापल्य: पूरयितव्यः, यदा तु चत्वारोऽपि परिपूर्णा 25 भवन्ति तदोत्कृष्टं सङ्ख्येयकं रूपाधिकं भवति । इह यथोक्तेषु चतुर्षु पल्येषु ये सर्षपा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org