________________
५४४
अनुयोगद्वारसूत्रम् [ सू० ४७७-४९६] [हे० ४७७-४९६] इत: क्रमप्राप्तं सङ्ख्याप्रमाणं विवरीषुराह- से किं तं संखप्पमाणे ? संखप्पमाणे अट्ठविहे पण्णत्ते, तंजहा- नामसंखा इत्यादि । सङ्ख्यानं सङ्ख्या संख्यायतेऽनयेति वा सङ्ख्या, सैव प्रमाणं सङ्ख्याप्रमाणम्। इह सङ्ख्याशब्देन सङ्ख्या-शङ्खयोर्द्वयोरपि ग्रहणं द्रष्टव्यम्, प्राकृतमधिकृत्य समानशब्दाभिधेयत्वात्, गोशब्देन पशु-भूम्यादिवत् । उक्तं च
गोशब्द: पशु-भूम्यंशु-वाग्दिगर्थप्रयोगवान् । मन्दप्रयोगो दृष्ट्यम्बु-वज्र-स्वर्गाभिधायकः ॥१॥ [ ]
एवमिहापि संखा इति प्राकृतोक्तौ सङ्ख्या शङ्खाश्च प्रमीयन्ते, ततो द्वयस्यापि ग्रहणम् । एवं च नाम-स्थापना-द्रव्यादिविचारेऽपि प्रक्रान्ते सङ्ख्या शङ्खा वा यत्र घटते तत्तत्र प्रस्तावज्ञेन स्वयमेव योज्यमिति । से किं तं नामसंखेत्यादि सर्वं 10 पूर्वाभिहितनामावश्यकादिविचारानुसारतः स्वयमेव भावनीयं यावत् जाणयसरीरभवियसरीरवइरित्ते दव्वसंखे तिविहे पण्णत्ते इत्यादि । इह यो जीवो मृत्वाऽनन्तरभवे शोषु उत्पत्स्यते स तेष्वबद्धायुष्कोऽपि जन्मदिनादारभ्य एकभविकः शङ्ख उच्यते, यत्र भवे वर्तते स एवैको भव: शोषूत्पत्तेरन्तरेऽस्तीति कृत्वा । एवं शङ्खप्रायोग्यं बद्धमायुष्कं येन स बद्धायुष्कः । शङ्खभवप्राप्तानां जन्तूनां ये 15 अवश्यमुदयमागच्छतस्ते द्वीन्द्रियजात्यादि-नीचे!त्राख्ये अभिमुखे जघन्यतः समयेनोत्कृष्टतोऽन्तर्मुहूर्तमात्रेणैव व्यवधानात् उदयाभिमुखप्राप्ते नाम-गोत्रे कर्मणी यस्य सोऽभिमुखनामगोत्र: । तदेष त्रिविधोऽपि भाविभावशङ्खताकारणत्वात् ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यशङ्ख उच्यते । यद्येवं द्विभविक-त्रिभविकादिरपि कस्मान्नेत्थं व्यपदिश्यत इति चेत्, नैवम्, तस्यातिव्यवहितत्वेन भावकारणताऽनभ्युपगमात्, 20 तत्कारणस्यैव द्रव्यत्वात् ।
इदानीं त्रिविधमपि शङ्ख कालत: क्रमेण निरूपयन्नाह- एगभविए णं भंते इत्यादि, एकभविकः शङ्खो भदन्त ! एकभविक इति व्यपदेशेन कालत: कियच्चिरं भवतीति । अत्रोत्तरम्- जहण्णेणमित्यादि, इदमुक्तं भवति- पृथिव्याद्यन्यतरभवेऽन्तर्मुहूर्त जीवित्वा योऽनन्तरं शङ्खषूत्पद्यते सोऽन्तर्मुहूर्तमेकभविकः शङ्खो भवति, यस्तु 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org