________________
५४५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् मत्स्याद्यन्यतमभवे पूर्वकोटी जीवित्वा तेषूत्पद्यते तस्य पूर्वकोटिरेकभविकत्वेन लभ्यते। अत्र चान्तर्मुहूर्तादपि हीनं जन्तूनामायुरेव नास्तीति जघन्यपदेऽन्तर्मुहूर्तग्रहणम्, यस्तु पूर्वकोट्यधिकायुष्कः सोऽसङ्ख्यातवर्षायुष्कत्वाद्देवेष्वेवोत्पद्यते न शर्केष्वित्युत्कृष्टपदे
पूर्वकोट्युपादानम् । आयुर्बन्धं च प्राणिनोऽनुभूयमानायुषो जघन्यतोऽप्यन्तर्मुहूर्ते शेष 5 एव कुर्वन्ति, उत्कृष्टतस्तु पूर्वकोटित्रिभाग एव न परत इति बद्धायुष्कस्य जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टत: पूर्वकोटित्रिभाग उक्तः । आभिमुख्यं चासन्नतायां सत्यामुपपद्यते अतोऽभिमुखनामगोत्रस्य जघन्यत: समय उत्कृष्टतस्त्वन्तर्मुहूर्त काल उक्तः, यथोक्तकालात् परतस्त्रयोऽपि भावशङ्खतां प्रतिपद्यन्त इति भावः । इदानीं
नैगमादिनयानां मध्ये को नयो यथोक्तत्रिविधशङ्खस्य मध्ये कं शखमिच्छतीति 10 विचार्यते- तत्र नैगम-सङ्ग्रह-व्यवहारा: स्थूलदृष्टित्वात् त्रिविधमपि शङ्खमिच्छन्ति,
दृश्यते हि स्थूलदृशां कारणे कार्योपचारं कृत्वा इत्थं व्यपदेशप्रवृत्तिः, यथा राज्यार्हकुमारे राजशब्दस्य घृतप्रक्षेपयोग्ये घटे घृतघटशब्दस्येत्यादि । ऋजुसूत्र एभ्यो विशुद्धत्वादाद्यस्यातिव्यवहितत्वेनातिप्रसङ्गभयाद् द्विविधमेवेच्छति । शब्दादयस्तु
विशुद्धतरत्वाद् द्वितीयमप्यतिव्यवहितं मन्यन्ते, अतोऽतिप्रसङ्गनिवृत्त्यर्थमेवैकं 15 चरममेवेच्छन्ति । सेत्तमित्यादि निगमनम् ।
से किं तं ओवम्मसंखा इत्यादि । सङ्ख्यानं सङ्ख्या परिच्छेदः, वस्तुनिर्णय इत्यर्थः, औपम्येन उपमाप्रधाना वा सङ्ख्या औपम्यसङ्ख्या । इयं चोपमानोपमेययो: सत्त्वासत्त्वाभ्यां चतुर्द्धा, तद्यथा- संतयं संतएणमित्यादि । तत्र प्रथमभङ्गे
तीर्थकरादेरुपमेयस्य कपाटादिना उपमानेन स्वरूपं संख्यायते निश्चीयते 20 इत्यौपम्यसङ्ख्यात्वं भावनीयम्, यस्य तीर्थकरा: स्वरूपतोऽनिश्चिता भवन्ति तस्य
पुरवरकपाटोपमवक्षसो नगरपरिघोपमबाहवस्ते भवन्तीत्याधुपमया तत्स्वरूपनिश्चयस्येहोत्पाद्यमानत्वादिति भाव: । द्वितीयभङ्गे पल्योपम-सागरोपमाणां योजनप्रमाणपल्य-वालाग्रादिकल्पनामात्रेण प्ररूपितत्वादसत्त्वमवसेयम्, उपमानता
चैषामेतन्महानारकाद्यायुर्महत्त्वसाधनादिति । तृतीयभङ्गे परिजूरियपेरंतमित्यादि गाथा। 25 तत्र वसन्तसमये परिजीर्णपर्यन्तं स्वपरिपाकत एव प्रचलद्वन्तं वृक्षात् पतद् भ्रश्यत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org