________________
५३७ आ.श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् इति भावः । अधर्मा-ऽऽकाशास्तिकाययोरप्येकैकद्रव्यत्वादेवमेव भावनीयम् । जीवास्तिकाये तु जीवे पएसे से पएसे नोजीवे त्ति, जीव: प्रदेश इति जीवास्तिकायात्मकः प्रदेश इत्यर्थः, स च प्रदेशो नोजीवः, नोशब्दस्यैकदेशवचनत्वात् सकलजीवास्तिकायैकदेशवृत्तिरित्यर्थः, यो ह्येकजीवद्रव्यात्मकः प्रदेश: स 5 कथमनन्तजीवद्रव्यात्मके समस्तजीवास्तिकाये वर्तेत इति भावः । एवं स्कन्धात्मकः प्रदेशो नोस्कन्धः, स्कन्धद्रव्याणामनन्तत्वात् तदेकदेशवृत्तिरित्यर्थः ।
एवं वदन्तं शब्दनयं नानार्थसमभिरोहणात् समभिरूढः स प्राह- यद् भणसि धर्मः प्रदेश: स प्रदेशो धर्म इत्यादि, तन्न भवति न युज्यते, कस्मादित्याह - इह खलु द्वौ समासौ भवतः, तद्यथा - तत्पुरुषश्च कर्मधारयश्च । इदमुक्तं भवति - धम्मे 10 परसे से पएसे धम्मे इत्युक्ते समासद्वयारम्भकं वाक्यद्वयमत्र संभाव्यते, तथाहि-- यदि धर्मशब्दात् सप्तमीयं तदा सप्तमीतत्पुरुषस्यारम्भकमिदं वाक्यम्, यथा वने हस्तीत्यादि, अथ प्रथमा तदा कर्मधारयस्य, यथा नीलमुत्पलमित्यादि, ननु यदि वाक्यद्वयमेवात्र संभाव्यते तर्हि कथं द्वौ समासौ भवत इत्युक्तम् ? उच्यते, समासारम्भकवाक्ययोः समासोपचारात्, अथवा अलुक्समासविवक्षया समासावप्येतौ भवतः, यथा कण्ठेकाल 15 इत्यादीत्यदोष:, यदि नाम द्वौ समासावत्र भवतस्ततः किमित्याह - तन्न ज्ञायते कतरेण समासेन भणसि ? किं तत्पुरुषेण कर्मधारयेण वा ? यदि तत्पुरुषेण भणसि तन्मैवं भण, दोषसम्भवादिति शेषः, स चायं दोषो 'धर्मे प्रदेश : ' इति भेदापत्तिः, यथा कुण्डे बदराणीति, न च प्रदेश-प्रदेशिनौ भेदेनोपलभ्येते, अथवा अभेदेऽपि सप्तमी दृश्यते यथा घटे रूपमित्यादि, यद्येवमुभयत्र दर्शनात् संशयलक्षणो दोषः स्यात् । 20 अथ कर्मधारयेण भणसि, ततो विशेषेण भण- धम्मे य से पएसे य से त्ति, धर्मश्च स प्रदेशश्च स इति समानाधिकरणः कर्मधारयः, एवं च सप्तम्याशङ्काभावतो न तत्पुरुषसम्भव इति भावः । आह- नन्वयं प्रदेश : समस्तादपि धर्मास्तिकायादव्यतिरिक्तः सन् समानाधिकरणतया निर्दिश्यते, उत तदेकदेशवृत्तिः सन् यथा जीवास्तिकायैकदेशवृत्तिर्जीवप्रदेश: ? इत्याशङ्क्याह- से पएसे धम्मेत्तिस च 25 प्रदेश: सकलधर्मास्तिकायादव्यतिरिक्तो न पुनस्तदेकदेशवृत्तिरित्यर्थः, शेषभावना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org