________________
अनुयोगद्वारसूत्रम् [सू० ४७७-४९६]
५३८
पूर्ववत् [ से पसे नोजीवे ] | से पसे नोखं इत्यत्रापि पूर्ववदेवार्थकथनम् । एवं वदन्तं समभिरूढं साम्प्रतमेवंभूतो भणति यद्यद्धर्मास्तिकायादिकं वस्तु भणसि तत् सर्वं समस्तं कृत्स्नं देश-प्रदेशकल्पनारहितं प्रतिपूर्णम् आत्मस्वरूपेणाविकलं निरवशेषं तदेवैकत्वान्निरवयवमे कग्रहणगृहीतम् एकाभिधानाभिधेयं नो नानाभिधानाभिधेयम्, तानि ह्येकस्मिन्नर्थेऽसौ नेच्छति, अभिधानभेदे वस्तुभेदाभ्युपगमात्, तदेवंभूतं तद् धर्मास्तिकायादिकं वस्तु भण, न तु प्रदेशादिरूपतया, यतो देश-प्रदेशौ ममावस्तुभूतौ, अखण्डस्यैव वस्तुनः सत्त्वेनोपगमात्, तथाहि - प्रदेश-प्रदेशिनोर्भेदो वा स्यादभेदो वा ? यदि प्रथम: पक्षस्तर्हि भेदेनोपलब्धिप्रसङ्गः, न च तथोपलब्धिरस्ति । अथाभेदस्तर्हि धर्म- प्रदेशशब्दयोः पर्यायतैव प्राप्ता, एकार्थविषयत्वात्, न च पर्यायशब्दयोर्युगपदुच्चारणं युज्यते, एकेनैव 10 तदर्थप्रतिपादने द्वितीयस्य वैयर्थ्यात्, तस्मादेकाभिधानाभिधेयं परिपूर्णमेकमेव वस्त्विति । तदेवमेते निजनिजार्थसत्यताप्रतिपादनपरा विप्रतिपद्यन्ते नयाः, एते च परस्परं निरपेक्षा दुर्नया:, सौगतादिसमयवत्, परस्परसापेक्षास्तु सुनया:, तैश्च परस्परसापेक्षैः समुदितैरेव सम्पूर्णं जिनमतं भवति, नैकैकावस्थायाम् । उक्तं च स्तुतिकारेण
Jain Education International
-
उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ दृष्टयः ।
न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्स्विवोदधिः ॥ [ सिद्धसेनद्वा० ४/६ ] एते च नया ज्ञानरूपाः, ततो जीवगुणत्वेन यद्यपि गुणप्रमाणेऽन्तर्भवन्ति तथापि प्रत्यक्षादिप्रमाणेभ्यो नयरूपतामात्रेण पृथक् प्रसिद्धत्वाद् बहुविचारविषयत्वाज्जिनागमे प्रतिस्थानमुपयोगित्वाच्च जीवगुणप्रमाणात् पृथगुक्ताः । तदेतत् प्रदेशदृष्टान्तेनेति निगमनम् । प्रस्थकादिदृष्टान्तत्रयेण च नयप्रमाणं प्रतिपाद्योपसंहरति - 20 तदेतन्नयप्रमाणमिति। अनेन च दृष्टान्तत्रयेण दिङ्मात्रदर्शनमेव कृतम्, यावता यत् किमपि जीवादि वस्त्वस्ति तत्र सर्वत्र नयविचारः प्रवर्तते इत्यलं बहुजल्पितेनेति । [सू० ४७७] से किं तं संखप्पमाणे ? संखप्पमाणे अट्ठविहे पण्णत्ते । ] एतदन्तर्गतः पाठो जेसं१ विना नास्ति ॥
For Private & Personal Use Only
5
15
www.jainelibrary.org