________________
५३६
अनुयोगद्वारसूत्रम् [ सू० ४७६] पञ्चविधः पञ्चप्रकार: प्रदेशः, द्रव्यलक्षणस्याश्रयस्य पञ्चविधत्वादिति भावः, तदेवाह- धर्मप्रदेश इत्यादि । एवं वदन्तं व्यवहारमृजुसूत्रो भणति- यद् भणसि पञ्चविधः प्रदेशः तन्न भवति, कस्मात् ? यस्माद्यदि ते पञ्चविध: प्रदेश एवमेकैको धर्मास्तिकायादिप्रदेश: पञ्चविधः प्राप्त:, शब्दाद्धि अत्र वस्तुव्यवस्था, शब्दाच्चैवमेव प्रतीतिर्भवति, एवं च सति पञ्चविंशतिविधः प्रदेशः प्राप्नोति, तन्मा 5 भण- पञ्चविध: प्रदेश:, किन्त्वेवं भण-भाज्य: प्रदेश:, स्याद्धर्मस्येत्यादि, इदमुक्तं भवति- भाज्यो विकल्पनीयो विभजनीय: प्रदेश:, कियद्भिर्विभागैः ? स्याद्धर्मप्रदेश इत्यादिपञ्चभिः, ततश्च पञ्चभेद एव प्रदेश: सिद्ध्यति, स च यथास्वमात्मीयात्मीय एवास्ति न परकीयः, तस्यार्थक्रियाऽसाधकत्वात् प्रस्तुतनयमतेनासत्त्वादिति ।
10 __ एवं भणन्तमृजुसूत्रं साम्प्रतं शब्दनयो भणति-यद् भणसि भाज्य: प्रदेश: तन्न भवति, कुत: ? यतो यदि भाज्य: प्रदेशः, एवं ते धर्मास्तिकायप्रदेशोऽपि कदाचिदधर्मास्तिकायादिप्रदेशः स्यात्, अधर्मास्तिकायप्रदेशोऽपि कदाचिद्धर्मास्तिकायादिप्रदेश: स्यात्, इत्थमपि भजनाया अनिवारितत्वात्, यथा एकोऽपि देवदत्तः कदाचिद्राज्ञो भृत्यः कदाचिदमात्यादेरिति, 15 एवमाकाशास्तिकायादिप्रदेशेऽपि वाच्यम्, तदेवं नैयत्याभावादनवस्था प्रसज्येत, तन्मैवं भण-भाज्य: प्रदेशः, अपि तु इत्थं भण-धम्मे पएसे से पएसे धम्मे इत्यादि, इदमुक्तं भवति- धर्मः प्रदेश इति, धर्मात्मक: प्रदेश इत्यर्थः, अत्राह- नन्वयं प्रदेश: सकलधर्मास्तिकायादव्यतिरिक्तः सन् धर्मात्मक इत्युच्यते आहोस्वित्तदेकदेशाव्यतिरिक्तः सन् यथा सकलजीवास्तिकायैकदेशैकजीवद्रव्याव्यतिरिक्तः सन् तत्प्रदेशो जीवात्मक 20 इति व्यपदिश्यत इत्याह- से पदेसे धम्मे त्ति स प्रदेशो धर्मः, सकलधर्मास्तिकायादव्यतिरिक्त इत्यर्थः, जीवास्तिकाये हि परस्परं भिन्नान्येवानन्तानि जीवद्रव्याणि भवन्ति, अतो य एकजीवद्रव्यस्य प्रदेश: स निःशेषजीवास्तिकायैकदेशवृत्तिरेव सन् जीवात्मक इत्युच्यते, अत्र तु धर्मास्तिकाय एकमेव द्रव्यं तत: सकलधर्मास्तिकायाव्यतिरिक्त एव सन् तत्प्रदेशो धर्मात्मक उच्यत 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org