________________
५३५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् धर्मप्रदेश:, एवमधर्मा-ऽऽकाश-जीवास्तिकायेष्वपि योज्यम् । स्कन्धः पुद्गलद्रव्यनिचयः, तस्य प्रदेश: स्कन्धप्रदेशः । देश: एषामेव पञ्चानां धर्मास्तिकायादिद्रव्याणां प्रदेशद्वयादिनिर्वृत्तोऽवयवः, तस्य प्रदेशो देशप्रदेशः । अयं च प्रदेशसामान्याव्यभिचारात्
षण्णां प्रदेश इत्युक्तम्, विशेषविवक्षायां तु षट् प्रदेशा: । एवं वदन्तं नैगमं ततो 5 निपुणतर: सङ्ग्रहो भणति- यद् भणसि षण्णां प्रदेश इति तन्न भवति तन्न
युज्यते, कस्मात् ? यस्माद् यो देशप्रदेश इति षष्ठे स्थाने भवता प्रतिपादितं तदसङ्गतमेव, यतो धर्मास्तिकायादिद्रव्यस्य सम्बन्धी यो देशस्तस्य य: प्रदेश: स वस्तुवृत्त्या तस्यैव द्रव्यस्य सम्बन्धी देशो विवक्ष्यते, द्रव्याव्यतिरिक्तस्य हि देशस्य
य: प्रदेश: स द्रव्यस्यैव भवति, यथा कोज दृष्टान्त इत्याह- दासेणेत्यादि, 10 लोकेऽप्येवं व्यवहतिर्दृश्यते, यथा कश्चिदाह- मदीयदासेन खर: क्रीतः, तत्र दासोऽपि
मदीयः, खरोऽपि मदीयः, दासस्य मदीयत्वात् तत्क्रीत: खरोऽपि मदीय इत्यर्थः, एवमिहापि देशस्य द्रव्यसम्बन्धित्वात् तत्प्रदेशोऽपि द्रव्यसम्बन्ध्येवेति भावः, तस्मान्मा भण-षण्णां प्रदेशः, अपि त्वेवं भण-पञ्चानां प्रदेश इति, त्वदुक्तषष्ठप्रदेशस्यैवा
घटनादित्यर्थः, तदेव दर्शयति-तद्यथा-धर्मप्रदेश इत्यादि, एतानि च पञ्च द्रव्याणि 15 तत्प्रदेशाश्चेत्येवमविशुद्धसङ्ग्रह एव मन्यते, अवान्तरद्रव्यसामान्याद्यभ्युपगमात्,
विशुद्धस्तु द्रव्यबाहुल्यं प्रदेशकल्पनां च नेच्छत्येव, सर्वस्यैव वस्तुत्वसामान्यक्रोडीकृतत्वेनैकत्वादित्यलं प्रसङ्गेन ।
___प्रकृतमुच्यते- एवं वदन्तं सङ्ग्रहं ततोऽपि निपुणो व्यवहारो भणति- यद् भणसि पञ्चानां प्रदेश इति तन्न भवति न युज्यते, कस्मात् ? यदि यथा पञ्चानां 20 गोष्ठिकानां किञ्चिद् द्रव्यं सामान्यम् एकं भवति, तद्यथा- हिरण्यं वेत्यादि, एवं
यदि प्रदेशोऽपि स्यात्ततो युज्येत वक्तुं पञ्चानां प्रदेश इति, इदमुक्तं भवति- यथा केषाञ्चित् पुरुषाणां साधारणं किञ्चिद्धिरण्यादि भवति, एवं पञ्चानामपि धर्मास्तिकायादिद्रव्याणां यद्येकः कश्चित् साधारण: प्रदेश: स्यात्तदेयं वाचोयुक्तिर्घटेत, न चैतदस्ति, प्रतिद्रव्यं प्रदेशभेदात्, तस्मान्मा भण-पञ्चानां प्रदेशः, अपि तु भण१. "स्य यत्संबंधी जे१,२, पा१, मामू० ॥ २. को दृष्टान्त पा१,२,खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org