________________
अनुयोगद्वारसूत्रम् [ सू० ४७६]
५३४ स्कन्धप्रदेशोऽपि भावनीय इति । एवं भणन्तं साम्प्रतं शब्दं नानार्थशब्दरोहणात् समभिरूढ इति समभिरूढो भणति- यद् भणसि धर्मः प्रदेश: स प्रदेशो धर्म इत्यादि, तन्मैवं भण, किमिति ? अत आह-इह खलु द्वौ समासौ सम्भवतः, तद्यथातत्पुरुषश्च कर्मधारयश्च, तन्न ज्ञायते कतरेण समासेन भणसि ? किं तत्पुरुषेण कर्मधारयेण वा ?, यदि तत्पुरुषेण भणसि तन्मैवं भण, दोषसम्भवादित्यभिप्राय:, 5 दोषसम्भवश्चायम्-धर्मस्य प्रदेशो धर्मप्रदेश इति भेदापत्तिः, यथा राज्ञः पुरुष इति । तैलस्य धारा, शिलापुत्रकस्य शरीरमित्यभेदेऽपि षष्ठी श्रूयत इति चेत्, उभयत्र दर्शनात् संशय एव दोषः । अथ कर्मधारयेण तत: विशेषतः विशेषेण भण-धर्मश्चासौ प्रदेशश्च इति समानाधिकरण: कर्मधारयः, अत एवाह- स च प्रदेशो धर्मः, तदव्यतिरिक्तत्वात् तस्य, एवं शेषेष्वपि भावनीयम् । एवं भणन्तं समभिरूढम् एवम्भूतो भणति-यद् यद् 10 भणसि तत् तथा तेन प्रकारेण सर्वं निर्विशेष कृत्स्नमिति देश-प्रदेशकल्पनावर्जितं प्रतिपूर्णम् आत्मस्वरूपेणाविकलं निरवशेषं तदेवैकत्वान्निरवयवम् एकग्रहणगृहीतं परिकल्पितभेदत्वादन्यतमाभिधानवाच्यम्, देशोऽपि मे अवस्तु, प्रदेशोऽपि मे अवस्तु, कल्पनाऽयोगाद् । इदमत्र हृदयम्- प्रदेश-प्रदेशिनोर्भेदो वा स्यादभेदो वा?, यदि भेदस्तस्येति सम्बन्धो वाच्यः, स चातिप्रसङ्गदोषग्रहग्रस्तत्वादशक्यो वक्तुम्, 15 अथाभेद: पर्यायशब्दतया घट-कुटशब्दवदुभयोरुच्चारणवैयर्थ्यम्, तस्मादसमासमेकमेव वस्त्विति । एवं निजनिजवचनीयसत्यतामुपलभ्य सर्वनयानां सर्वत्रानेकान्तसमये स्थिर: स्यात्, न पुनरसद्ग्राहं गच्छेदिति। भणितं च
निययवयणिज्जसच्चा सव्वणया परवियालणे मोहा ।
ते पुण अदिट्ठसमयो विभजति सच्चे व अलिए वा ॥१॥ [सन्मति०गा० २८] 20 तदेतत् प्रदेशदृष्टान्तेन । तदेतन्नयप्रमाणम् ।
[हे० ४७६] से किं तं पएसदिटुंतेणमित्यादि । प्रकृष्टो देश: प्रदेशः, निर्विभागो भाग इत्यर्थः, स एव दृष्टान्तः, तेन नयमतानि चिन्त्यन्ते- तत्र नैगमो भणति- षण्णां प्रदेशः, तद्यथा- धम्मपदेसो इत्यादि, धर्मशब्देन धर्मास्तिकायो गृह्यते, तस्य प्रदेशो १. अलियए वा प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org