________________
५३३ आ.श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् चापि सामान्यविवक्षया एकः, विशेषविवक्षयाऽनेक इति । एवं वदन्तं नैगमं सङ्ग्रहो भणति- यद् भणसि षण्णां प्रदेश: तन्न भवति, कस्मात् ? यस्माद् यो देशप्रदेश: स तस्यैव द्रव्यस्य, तदव्यतिरिक्तत्वाद् देशस्य, यथा को दृष्टान्त: ? इत्यत्राह - दासेन मे खरः क्रीतः दासोऽपि मे खरोऽपि मे, तत्सम्बन्धित्वात् खरस्य, एतावता 5 साधर्म्यम्, तन्मा भण- षण्णां प्रदेशः, षष्ठस्य वस्तुनोऽविद्यमानत्वात्, परिकल्पने च प्रभूततरापत्तेः, भण- पञ्चानां प्रदेशः, तद्यथा - धर्मप्रदेश इत्यादि, अविशुद्धश्चायं सङ्ग्रहः, अपरसामान्याभ्युपगमात् । एवं वदन्तं सङ्ग्रहं व्यवहारो भणति - यद् भणसि पञ्चानां प्रदेशस्तद् न भवति न युज्यते, कस्माद् ?, यस्माद् यदि पञ्चानां गोष्ठिकानां किञ्चिद् द्रव्यं सामान्यमेकं भवति तद्यथा हिरण्यं वेत्यादि एवं 10 प्रदेशोऽपि स्यात् ततो युज्येत वक्तुं पञ्चानां प्रदेशः, न चैतदेवम्, तन्मा [भणपञ्चानां प्रदेशः] भण-पञ्चविधः पञ्चप्रकार: प्रदेशः, तद्यथा - धर्मप्रदेश इत्यादि, इत्थं लोके व्यवहारदर्शनात् । एवं वदन्तं व्यवहारमृजुसूत्रो भणति यद् भणसि पञ्चविधः प्रदेशस्तन्न भवति, कस्माद् ? यस्माद् यदि ते पञ्चविधः प्रदेश एवमेकैको धर्मास्तिकायादिप्रदेशः शब्दश्रुतिप्रामाण्यात् तथाप्रतीतेः पञ्चविधः प्राप्तः, एवं च 15 पञ्चविंशतिविधः प्रदेश इति, तद् मा भण पञ्चविधः प्रदेशः, भण- भाज्य: प्रदेशः, स्याद् धर्मस्येत्यादि, अपेक्षावशेन भाज्य: यो यस्याऽऽत्मीयः स एवास्ति, परकीयस्य परधनवद् निष्प्रयोजनत्वात् खरविषाणवदप्रदेश एवेत्यतः स्याद्धर्मप्रदेश इति । एवं भणन्तम् ऋजुसूत्रं साम्प्रतं शब्दो भणति - भाज्य: प्रदेशस्तन्न भवति, कस्माद् ? यस्मादेवं ते धर्मप्रदेशोऽपि स्याद्ध ( दध ) र्मप्रदेश इति ( इत्यादि) विकल्पस्यानिवारितत्वात् 20 स्यादधर्मप्रदेश इत्याद्यापत्तेः, अनवधारणादनवस्था भविष्यति, तन्मा भण भाज्य: प्रदेशः, भण-धर्म[:] प्रदेश : प्रदेशो धर्म इत्यादि । अयमत्र भावार्थ:-धर्म [ : ] प्रदेश इति धर्मात्मकः प्रदेशः, स प्रदेशो धर्म इति स च प्रदेशो नियमात् धर्मास्तिकायस्तदव्यतिरिक्तत्वात् तस्य, एवमधर्मा - ऽऽकाशयोरपि भावनीयम्, एवं जीवात्मकः प्रदेश: प्रदेशो नोजीव इति, तज्जीवाव्यतिरिक्तोऽपि सकलजीवास्तिकायाव्यतिरिक्तत्वानुपपत्तेरनेकद्रव्यत्वाद् नोजीवो जीवास्तिकायैकदेश इत्यर्थः एवं
Jain Education International
For Private & Personal Use Only
"
www.jainelibrary.org