SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ५२५ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् तन्मतानुसारतो वाच्येति । तदेतत् प्रस्थकदृष्टान्तेन । [हे० ४७३-४७४] तदेवं जीवाजीवभेदभिन्नं गुणप्रमाणं प्रतिपाद्य क्रमप्राप्तं नयप्रमाणं प्रतिपादयन्नाह से किं तं नयप्पमाणे इत्यादि । अनन्तधर्मणो वस्तुन एकांशेन नयनं नयः, स एव प्रमाणं नयप्रमाणम्, त्रिविधं प्रज्ञप्तमिति, यद्यपि नैगमसङ्ग्रहादिभेदतो बहवो नयास्तथापि प्रस्थकादिदृष्टान्तत्रयेण सर्वेषामिह 5 निरूपयितुमिष्टत्वात् त्रैविध्यमुच्यते, तथा चाह- तद्यथा- प्रस्थकदृष्टान्तेनेत्यादि, प्रस्थकादिदृष्टान्तत्रयेण हेतुभूतेन त्रिविधं नयप्रमाणं भवतीत्यर्थः । तत्र प्रस्थकदृष्टान्तं दर्शयति- तद्यथानामकः कश्चित् पुरुषः परशुं कुठारं गृहीत्वा अटवीमुखो गच्छेदित्यादि । इदमुक्तं भवति - प्रस्थको मागधदेशप्रसिद्धो धान्यमानविशेषः, तद्धेतुभूतकाष्ठकर्तनाय कुठारव्यग्रहस्तं तक्षादिपुरुषमटवीं गच्छन्तं 10 दृष्ट्वा कश्चिदन्यो वदेत् क्व भवान् गच्छति ? तत्राऽविशुद्धनैगमो भणति, अविशुद्धनैगमनयमतानुसारी सन्नसौ प्रत्युत्तरयतीत्यर्थः । किमित्याह - प्रस्थस्य गच्छामि । इदमुक्तं भवति - नैके गमा वस्तुपरिछेदा यस्य अपि तु बहवः स निरुक्तवशात् ककारलोपतो नैगम उच्यते, अतो यद्यप्यत्र प्रस्थककारणभूतकाष्ठनिमित्तमेव गमनम्, न तु प्रस्थकनिमित्तम्, तथाऽप्यनेकप्रकारवस्त्वभ्युपगमपरत्वात् कारणे 15 कार्योपचारात् तथाव्यवहारदर्शनादेवमप्यभिधत्तेऽसौ - प्रस्थकस्य गच्छामीति । तं - कश्चित् छिन्दन्तम्, वृक्षमिति गम्यते, पश्येत्, दृष्ट्वा च वदेत्- किं भवाँच्छिनत्ति ? ततः प्राक्तनात् किञ्चिद्विशुद्ध नैगमनयमतानुसारी सन्नसौ भणति - प्रस्थकं छिनद्मि, अत्रापि कारणे कार्योपचारात्तथाव्यवहृतिदर्शनादेव काष्ठेऽपि छिद्यमाने प्रस्थकं छिनधीत्युत्तरम्, केवलं काष्ठस्य प्रस्थकं प्रति कारणताभावस्यात्र 20 किञ्चिदासन्नत्वाद्विशुद्धत्वम्, प्राक् पुनरतिव्यवहितत्वात् मलीमसत्वम् । एवं पूर्वपूर्वापेक्षया यथोत्तरस्य विशुद्धता भावनीया । नवरं तक्ष्णुवन्तं तनूकुर्वन्तम्, उत्किरन्तं वेधनकेन मध्याद्विकिरन्तम्, विलिखन्तं लेखन्या मृष्टं कुर्वाणम् । एवमनेन प्रकारेण तावन्नेयं यावद्विशुद्धतरनैगमस्य नामाउडियउत्ति आकुट्टितनामा, प्रस्थकोऽयमित्येवं १. भ्रष्टं जेर विना ॥ २. उडिय त्ति जे१ विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy