________________
अनुयोगद्वारसूत्रम् [ सू० ४७३-४७४]
नामाङ्कित निष्पन्नः प्रस्थक इति । एवमेव व्यवहारस्यापीति, लोकव्यवहारप्रधानो नयः व्यवहारनयः, लोके च पूर्वोक्तावस्थासु सर्वत्र प्रस्थकव्यवहारो दृश्यतेऽतो व्यवहारनयोऽप्येवमेव प्रतिपद्यते इति भावः ।
५२६
स
संगहस्सेत्यादि, सामान्यरूपतया सर्वं वस्तु संगृह्णाति क्रोडीकरोतीति सङ्ग्रहस्तस्य मतेन चितादिविशेषणविशिष्ट एव प्रस्थो भवति, नान्यः, तत्र चितो धान्येन व्याप्तः, स च देशतोऽपि भवत्यत आह- मितः पूरितः, अनेनैव प्रकारेण मेयं समारूढं यत्र आहितादेराकृतिगणत्वान्मे यसमारूढः I अयमत्र भावार्थ:प्राक्तननयद्वयस्याविशुद्धत्वात् प्रस्थककारणमपि प्रस्थक उक्तः, निष्पन्न: प्रस्थोऽपि स्वकार्याकरणकालेऽपि प्रस्थक इष्टः, अस्य तु ततो विशुद्धत्वाद्धान्यमानलक्षणं स्वार्थं कुर्वन्नेव प्रस्थकः, तस्य तदर्थत्वात्, तदभावे च प्रस्थकव्यपदेशेऽतिप्रसङ्गादिति यथोक्त 10 एव प्रस्थकः, सोऽपि प्रस्थकसामान्याव्यतिरेकात् व्यतिरेके चाप्रस्थकत्वप्रसङ्गात् सर्व एक एव प्रस्थक इति प्रस्तुतनयो मन्यते, सामान्यवादित्वादिति ।
Jain Education International
-
उज्जुसुयस्सेत्यादि, ऋजुसूत्र : पूर्वोक्तशब्दार्थः, तस्य निष्पन्नस्वरूपोऽर्थक्रियाहेतुः प्रस्थकोऽपि प्रस्थकः, तत्परिच्छिन्नं धान्यादिकमपि वस्तु प्रस्थकः, उभयत्र प्रस्थकोऽयमिति व्यवहारदर्शनात्, तथाप्रतीतेः, अपरं चासौ पूर्वस्माद्विशुद्धत्वाद्वर्तमाने 15 एव मान-मेये प्रस्थकत्वेन प्रतिपद्यते, नातीतानागतकाले, तयोर्विनष्टानुत्पन्नत्वेनासत्त्वादिति ।
For Private & Personal Use Only
5
तिन्हं सहनयाणमित्यादि, शब्दप्रधाना नया: शब्दनयाः शब्दसमभिरूढैवंभूताः, शब्देऽन्यथा स्थितेऽर्थमन्यथा नेच्छन्त्यमी, किन्तु यथैव शब्दो व्यवस्थितस्तथैव शब्देनार्थं गमयन्तीत्यतः शब्दनया उच्यन्ते, आद्यास्तु 20 यथाकथञ्चिच्छब्दाः प्रवर्तन्तामर्था एव प्रधानमित्यभ्युपगमपरत्वादर्थनयाः प्रकीर्त्यन्ते, अत एषां त्रयाणां शब्दनयानां प्रस्थकाधिकारज्ञः प्रस्थकस्वरूपपरिज्ञानोपयुक्त: प्रस्थकः, भावप्रधाना ह्येते नया इत्यतो भावप्रस्थकमेवेच्छन्ति, भावश्च प्रस्थकोपयोगोऽतः स प्रस्थकः, तदुपयोगवानपि च ततोऽव्यतिरेकात् प्रस्थकः, यो हि यत्रोपयुक्तः सोऽमीषां मते स एव भवति, उपयोगलक्षणो जीवः, उपयोगश्चेत् प्रस्थकादिविषयतया परिणत : 25
www.jainelibrary.org