________________
अनुयोगद्वारसूत्रम् [ सू० ४७३-४७४]
५२४ वृक्षम् इति गम्यते, पश्येत् उपलभेत, दृष्ट्वा च वदेत्-किं भवान् छिनत्ति ?, विशुद्धतरो नैगमो भणति-प्रस्थकं छिनधि, भावना प्राग्वत् । एवं तक्षन्तं तनूकुर्वन्तम् उत्किरन्तं वेधनकेन विकिरन्तं लिखन्तं लेखन्या म्र(मृ)ष्टं कुर्वाणम् एवमेव अनेन प्रकारेण विशुद्धतरस्य नैगमस्य नामाउडियउ त्ति नामाङ्कित: प्रस्थक इति । एवमेव व्यवहारस्यापि, लोकव्यवहारपरत्वात् तस्य चोक्तवद् विचित्रत्वादिति। संगहस्सेत्यादि, 5 सामान्यमात्रग्राही सङ्ग्रहः । चितो धान्येन व्याप्तः, स च देशतोऽपि भवत्यत आहमित: पूरितः, अनेनैव प्रकारेण मेयं समारूढं यस्मिन्नाहिताग्नेराकृतिगणत्वात् तत्र वा ग्रहणान्मेयसमारूढः, धान्यसमारूढ इत्यन्ये, प्रस्थक इति । अयमत्र भावार्थ:प्रस्थकस्य मानार्थत्वाच्छेदावस्थासु च तदभावाद् यथोक्त एव प्रस्थक इति, असावपि तत्सामान्यव्यतिरेकेण तद्विशेषाभावादेक एव ।
10 ऋजु वर्तमानसमयाभ्युपगमादतीता-ऽनागतयोर्विनष्टाऽनुत्पन्नत्वेनाकुटिलत्वादकुटिलं सूत्रयतीति ऋजुसूत्र:, तस्य निष्पन्नस्वरूपोऽर्थक्रियाहेतु: प्रस्थकोऽपि प्रस्थको वर्तमान:, तन्मितं मेयमपि प्रस्थकः, तथा प्रतीतेः, प्रस्थकोऽयमिति व्यवहारदर्शनात्, न ह्यतीतेनोत्पित्सुना वा मानेन मेयेन वाऽर्थसिद्धिरित्यतो मान-मेये वर्तमान एव प्रस्थक इति हृदयम् । त्रयाणां शब्दनयानामित्यादि, शब्दप्रधानत्वात् 15 शब्दादयः शब्दनयाः, शब्दमर्थेऽन्यथावस्थितं नेच्छन्ति, शब्देनार्थं गमयन्तीत्यर्थः, आद्यास्तु अर्थप्रधानत्वादर्थनया:, यथाकथञ्चिच्छब्देनार्थोऽभिधीयते इति अर्थेन शब्दं गमयन्तीति, अतोऽन्वर्थप्रधानत्वात् त्रयाणां शब्दनयानां शब्द-समभिरूद्वैवम्भूतानां प्रस्थकार्थाधिकारज्ञः प्रस्थकः, तदव्यतिरिक्तो ज्ञाता तल्लक्षण एव गृह्यते, भावप्रधानत्वाच्छब्दादिनयानाम् । यस्य वा वशेन प्रस्थको निष्पद्यते इति, स चापि 20 प्रस्थकज्ञोपयोगमन्तरेण न निष्पद्यत इत्यतोऽपि तज्ज्ञोपयोग एव परमार्थत: प्रस्थकः। इयममीषां युक्ति:- सर्वं वस्तु स्वात्मनि वर्त्तते, नान्यत्र, यथा जीवे चेतना, नभसि अमूर्त्तत्वम्, आधारा-ऽऽधेययोरनन्तरत्वात्, अर्थान्तरे देशादिविकल्पैर्वृत्त्ययोगात्, प्रस्थकश्च नियामकं ज्ञानं तत् कथं काष्ठभाजने वर्तेत, सामानाधिकरण्याभावात् ?, अत: प्रस्थको मानमिति वस्त्वसङ्क्रमादप्रयोग इत्योघयुक्तिः। विशेषयुक्तिस्तु प्रतिनयं 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org