________________
अनुयोगद्वारसूत्रम् [ सू० ४७२]
५२० भजनया, निर्विष्टकायिकानां कल्पस्थितस्य च । परिहारिकाणां परिहारो जघन्यादिचतुर्थादिभेदेन, चतुर्थादि त्रिविधं तप: ग्रीष्म-शिशिर-वर्षासु यथासङ्ख्यम्- जघन्यं चतुर्थं षष्ठमष्टमं च, मध्यमं षष्ठमष्टमं दशमं च, उत्कृष्टमष्टमं दशमं द्वादशं च । शेषाः पञ्चापि नियमभक्ताः प्रायेणेति न तेषामुपवस्तव्यमिति नियम:, भक्तं च सर्वेषामाचाम्लमेव, नान्यत् । एवं परिहारिकाणां षण्मासं तपः, तत्प्रतिचरणं 5 चानुपरिहारिकाणाम् । ततः पुनरितरेषां षण्मासं तपः, प्रतिचरणं चेतरेषाम्, निर्विष्टकायानामित्यर्थः । कल्पस्थितस्यापि षण्मासमिति । एवं मासैरष्टादशभिरेष कल्प: परिसमापितो भवति, कल्पपरिसमाप्तौ च त्रयी गतिरेषाम्-- भूयस्तमेव कल्पं प्रतिपद्येरन् जिनकल्पं वा गणं वा प्रति गच्छेयुः । स्थितकल्पे चैते पुरुषयुगद्वयं भवेयुर्नेतरत्रेति ३ । तथा सूक्ष्मसम्परायम्, सम्पर्येति संसारमेभिरिति सम्पराया: क्रोधादय:, 10 लोभांशावशेषतया सूक्ष्म: सम्परायो यत्रेति सूक्ष्मसम्परायम् । इदमपि संक्लिश्यमानकविशुध्यमानकभेदाद् द्विधैव। तत्र श्रेणिमारोहतो विशुध्यमानकमुच्यते, तत: प्रच्यवमानस्य संक्लिश्यमानकमिति । तथा अथाख्यातम्, अथेत्यव्ययं याथातथ्ये, आङभिविधौ, याथातथ्येनाभिविधिना च ख्यातं अथाख्यातम्, अकषायत्वादनतिचारमित्यर्थः । इदं च द्वेधा - प्रतिपाति अप्रतिपाति च, उपशा(श?)मक-क्षपकभेदात्, छद्मस्थ- 15 केवलिस्वामिभेदाद्वा । तदेतज्जीवगुणप्रमाणम् । तदेतद् गुणप्रमाणम् ।
हे० ४७२] से किं तं चरित्तगुणप्पमाणे इत्यादि । चरन्त्यनिन्दितमनेनेति चरित्रम्, तदेव चारित्रम्, चारित्रमेव गुणः, स एव प्रमाणं [चारित्रगुणप्रमाणं] सावद्ययोगविरतिरूपम् । तच्च पञ्चविधं सामायिकादि । पञ्चविधमप्येतदविशेषत: सामायिकमेव, छेदादिविशेषैस्तु विशेष्यमाणं पञ्चधा भिद्यते । तत्राद्यं विशेषाभावात् 20 सामान्यसंज्ञायामेवावतिष्ठते सामायिकमिति । सामायिकं पूर्वोक्तशब्दार्थम्, तच्चत्वरं यावत्कथिकं च । तत्रेत्वरं भाविव्यपदेशान्तरत्वात् स्वल्पकालम्, तच्चाद्यचरमतीर्थकरकालयोरेव यावदद्यापि महाव्रतानि नारोप्यन्ते तावच्छिष्यस्य संभवति । आत्मन: कथां यावद् यदास्ते तद् यावत्कथं यावज्जीवमित्यर्थः, यावत्कथमेव १. "तिभूतम् जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org