________________
५१९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् सातियारस्येत्यर्थः, जं पुण सेहस्स पढमताए अतियारवज्जियस्स वि उवट्ठावणं तं णिरतियारस्येत्यर्थः । परिहारतवं वहंता णिव्विसमाणा, परिहारतवणिग्गता णिव्विट्ठकाइया । उवसामगसेढीए उवसमेन्तो सुहुमसंपरागो विसुज्झमाणो भवति,
सो चेव परिवडतो संकिलिस्समाणो भवति । खवगसेढीए संकिलिस्समाणो णत्थि। 5 मोहक्खयकाले अणुप्पण्णकेवलो जाव ताव छतुमत्थो, खीणदंसण-णाणावरणकाले जाव भवत्थो ताव अहक्खायचरित्तकेवली । सेसं कंठं ।
[हा० ४७२] से किं तं चारित्तगुणप्पमाणे ? इत्यादि । चरन्त्यनिन्दितमनेनेति चरित्रं क्षयोपशमरूपम्, तस्य भावश्चारित्रम्, अशेषकर्मक्षयाय चेष्टा इत्यर्थः, पञ्चविधं
प्रज्ञप्तम्, तच्च सामायिकमित्यादि, तत्र सर्वमप्येतदविशेषत: सामायिकमेव सत् 10 छेदादिविशेषैर्विशेष्यमाणमर्थत: संज्ञातश्च नानात्वं लभते । तत्राऽऽद्यं विशेषणाभावात्
सामान्यसंज्ञायामेवावतिष्ठते सामायिकमिति, तत्र सावद्ययोगविरतिमानं सामायिकम् । तच्चे त्वरं यावत्कथिकं च । तत्र स्वल्पकालमित्वरम्, तदाद्यचरमार्हत्तीर्थयोरेवानारोपितव्रतस्य शैक्षकस्य । यावत्कथाऽऽत्मन: तावत्कालं यावत्कथम्, यावज्जीवमित्यर्थः, यावत्कथमेव यावत्कथितम्(कम्), तन्मध्यमार्हत्तीर्थेषु विदेहवासिनां 15 चेति १। तथा छेदोपस्थापनम्, इह यत्र पूर्वपर्यायस्य छेदो महाव्रतेषु चोपस्थापनमात्मनः तच्छेदोपस्थापनमुच्यते । तच्च सातिचारं निरतिचारं च। तत्र निरतिचारमित्वरसामायिकस्य शैक्षकस्य यदारोप्यते, यद्वा तीर्थान्तरप्रतिपत्तौ, यथा पार्श्वस्वामितीर्थाद् वर्द्धमानतीर्थे सङ्क्रामतः । मूलगुणघातिनो यत् पुनव्रतारोपणं तत् सातिचारम्, उभयं चैतत्
स्थितकल्पे, नेतरत्र २ । तथा परिहार: तपोविशेषः, तेन विशुद्धं परिहारविशुद्धम्, 20 परिहारो वा विशेषेण शुद्धो यत्र तत् परिहारविशुद्धम्, परिहारविशुद्धिकं चेति
स्वार्थप्रत्ययोपादानात् । तदपि द्विधा निर्विश्यमानकं निर्विष्टकायिकं च । तत्र निर्विश्यमानम् आसेव्यमानम्, अथवा तदनुष्ठातारो निर्विशमानकाः, तत्सहयोगात् अतस्तदपि निर्विशमानकम् । निर्विष्टः कायो यैस्ते निर्विष्टकाया:, स्वार्थिकप्रत्ययो
पादानानिर्विष्टकायिकाः । तस्य वोढार:- परिहारिकाश्चत्वारोऽनुपरिहारिकाश्चत्वारः 25 कल्पस्थितश्चेति नवको गण: । तत्र परिहारिकाणां निर्विशमानकम्, अनुपरिहारिकाणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org