________________
५२१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् यावत्कथिकम् । एतच्च भरतैरावतेष्वाद्य-चरमवर्जमध्यमतीर्थकरसाधूनां महाविदेहतीर्थकरयतीनां च संभवति । पूर्वपर्यायस्य छेदेनोपस्थापनं महाव्रतेषु यत्र तच्छेदोपस्थापनम्, भरतैरावतप्रथम-पश्चिमतीर्थकरतीर्थ एव, नान्यत्र । तच्च सातिचारं निरतिचारं च । तत्रेत्वरसामायिकस्य शिक्षकस्य यदारोप्यते तीर्थान्तरं वा सङ्क्रामत: 5 साधोर्यथा पार्श्वनाथतीर्थान्महावीरतीर्थं सङ्क्रामतस्तन्निरतिचारम् । मूलगुणघातिनस्तु यत् पुनव्रतारोपणं तत् सातिचारम् । परिहार: तपोविशेषस्तेन विशुद्धम्, अथवा परिहार: अनेषणीयादेः परित्यागो विशेषेण शुद्धो यत्र तत् परिहारविशुद्धम्, तदेव परिहारविशुद्धिकम्। तदपि द्विविधम्- निर्विश्यमानकं निर्विष्टकायिकं च । तत्र
निर्विश्यमानम् आसेव्यमानम्, अथवा तदनुष्ठातारः साधवो निर्विश्यमानका:, 10 तत्सहयोगात्तदपि निर्विश्यमानकम् । निर्विष्ट आसेवितप्रस्तुततपोविशेष: कायो येषां ते
निर्विष्टकायाः, त एव निर्विष्टकायिका: साधवः, तदाश्रयित्वात् प्रस्तुतचारित्रमपि निर्विष्टकायिकम् । इदमत्र हृदयम्- तीर्थकरचरणमूले येन तीर्थकरसमीपे अदः प्रतिपन्नपूर्वं तदन्तिके वा नवको गण: परिहारविशुद्धिचारित्रं प्रतिपद्यते, नान्यस्य समीपे, तत्रैक:
कल्पस्थितो यदन्तिके सर्वा सामाचारी क्रियते, चत्वारस्तु साधवो वक्ष्यमाणं तपः 15 कुर्वन्ति, ते च परिहारिका इत्युच्यन्ते, अन्ये तु चत्वारो वैयावृत्यकर्तृत्वं प्रतिपद्यन्ते,
ते चानुपरिहारिका इति व्यपदिश्यन्ते । तत्र परिहारकाणां तप: प्रोच्यते- ग्रीष्मे जघन्यतश्चतुर्थं मध्यमपदे षष्ठम् उत्कृष्टतस्त्वष्टमम्, शिशिरे जघन्य-मध्यमोत्कृष्टपदेषु यथासङ्ख्यं षष्ठमष्टमं दशमं च, वर्षासु जघन्यादिपदत्रयेऽपि यथाक्रममष्टमं दशमं द्वादशं
च, शेषास्तु कल्पस्थिता-ऽनुपरिहारिका: पञ्चापि प्रायो नित्यभक्ता नोपवासं कुर्वन्ति, 20 भक्तं च नवानामप्याचामाम्लमेव, नान्यत् । तत: परिहारिका: षण्मासान् यावद्यथोक्तं तप: कृत्वा अनुपरिहारिकता प्रतिपद्यन्ते, अनुपरिहारिकास्तु परिहारिकताम्, तैरपि षण्मासान् यावद्यदा तप: कृतं भवति तदा कृततपसामष्टानां मध्यादेक: कल्पस्थितो व्यवस्थाप्यते, अग्रेतनश्चासौ षड् मासान् यावद्यथोक्तं तप: करोति, शेषास्तु सप्ताऽनुचरतामाश्रयन्ति । एवं चाष्टादशभिर्मासैरयं कल्प: समाप्यते । तत्समाप्तौ च १. ०त्य खं० जे२, पा१, मां. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org