________________
५१७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् दर्शनावरणकर्मक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनमिति । उक्तं च -
जं सामन्नग्गहणं भावाणं नेय कट्टमागारं । अविसेसिऊण अत्थे दंसणमिइ वुच्चए समए ॥१॥ [ ]
तदेवात्मनो गुणः, स एव प्रमाणं दर्शनगुणप्रमाणम्, इदं च चक्षुर्दर्शनादि5 भेदाच्चतुर्विधम्, तत्र भावचक्षुरिन्द्रियावरणक्षयोपशमाद् द्रव्येन्द्रियानुपघाताच्च चक्षुर्दर्शनिनः चक्षुर्दर्शनलब्धिमतो जीवस्य घटादिषु द्रव्येषु चक्षुषो दर्शनं चक्षुर्दर्शनम्, भवतीति क्रियाध्याहारः, सामान्यविषयत्वेऽपि चास्य यद् घटादिविशेषाभिधानं तत् सामान्य-विशेषयोः कथञ्चिदभेदादेकान्तेन विशेषेभ्यो व्यतिरिक्तस्य
सामान्यस्याग्रहणख्यापनार्थम् । उक्तं च- निर्विशेषं विशेषाणां ग्रहो दर्शनमुच्यते [ ] 10 इत्यादि । चक्षुर्वर्जशेषेन्द्रियचतुष्टयं मनश्चाचक्षुरुच्यते, तस्य दर्शनमचक्षुर्दर्शनम्, तदपि भावाचक्षुरिन्द्रियावरणक्षयोपशमाद् द्रव्येन्द्रियानुपघाताच्च अचक्षुर्दर्शनिनः अचक्षुर्दर्शनलब्धिमतो जीवस्याऽऽत्मभावे भवति, आत्मनि जीवे भावः संश्लिष्टतया सम्बन्धः, विषयस्य घटादेरिति गम्यते, तस्मिन् सति इदं प्रादुरस्तीत्यर्थः। इदमुक्तं
भवति- चक्षुरप्राप्यकारि ततो दूरस्थमपि स्वविषयं परिच्छिनत्तीत्यस्यार्थस्य ख्यापनार्थं 15 घटादिषु चक्षुर्दर्शनं भवतीति पूर्वं विषयस्य भेदेनाभिधानं कृतम्, श्रोत्रादीनि तु
प्राप्यकारीणि ततो द्रव्येन्द्रियसंश्लेषद्वारेण जीवेन सह सम्बद्धमेव विषयं परिच्छिन्दन्तीत्येतद्दर्शनार्थमात्मभावे भवतीत्येवमिह विषयस्याभेदेन प्रतिपादनमकारीति। उक्तं च - पुढे सुणेइ सदं रूवं पुण पासई अपुढे तु [आवश्यकनि० गा०५]
इत्यादि । अवधेर्दर्शनमवधिदर्शनम् अवधिदर्शनिन: अवधिदर्शनावरणक्षयोपशम20 समुद्भूतावधिदर्शनलब्धिमतो जीवस्य सर्वेष्वपि रूपिद्रव्येषु भवति, न पुन:
सर्वपर्यायेषु, यतोऽवधेरुत्कृष्टतोऽप्येकवस्तुगता: सङ्खयेया असङ्ख्येया वा पर्याया विषयत्वेनोक्ता:, जघन्यतस्तु द्वौ पर्यायौ द्विगुणितौ, रूप-रस-गन्ध-स्पर्शलक्षणाश्चत्वारः पर्याया इत्यर्थः । उक्तं च -
दव्वाओ असंखेज्जे संखेज्जे यावि पज्जवे लहइ । 25 दो पज्जवे दुगुणिए लहइ य एगाउ दवाओ ॥१॥ [ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org