________________
अनुयोगद्वारसूत्रम् [ सू० ४७१]
दव्विंदिसु सद्दादियो जदा पत्तमत्थो तदा भाविंदियभावे अप्पणो विण्णास उप्पज्जति त्ति । एवं सेसिंदियाणि पत्तविसयाणि ज्ञापितं भवति । ओहिदंसणं सव्वदव्वे त्ति गुरुवयणाओ जाणितव्वं सव्वे रूविदव्वा । भणितं च रूपिष्ववधेः [ तत्त्वार्थ० १ २८ ] | अहवा धम्मादीया सव्वदव्वा रूविदव्वाणुसारतो जाणति मणदव्वणुसारतो मणपज्जवणाणि व्व । सेसं कंठं ।
इत्यादि,
I
[ हा० ४७१] से किं तं दंसणगुणप्पमाणे दर्शनावरणकर्मक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनमिति । उक्तं चजं सामण्णग्गहणं भावाणं कट्टु नेय आगारं । अविसेसिऊण अत्थे दंसणमिति वच्चए समए ॥१॥ [
] एतदेव आत्मगुणप्रमाणं च । इदं च चतुर्विधं प्रज्ञप्तम्- चक्षुर्दर्शनादिभेदात् । 10 तत्र चक्षुर्दशनं भावचक्षुरिन्द्रियावरणक्षयोपशमे द्रव्येन्द्रियानुपघाते च तत्परिणामवत आत्मनो भवतीत्यत आह- चक्षुर्दर्शनिनः घटादिष्वर्थेषु भवतीति शेषः, अनेन च विषयभेदाभिधानेन चक्षुषोऽप्राप्तकारितामाह, सामान्यविषयत्वेऽपि चास्य घटादिविशेषाभिधानं कथञ्चित् तद [न] र्थान्तरभूतसामान्यख्यापनार्थम्, उक्तं च निर्विशेषं विशेषाणां ग्रहो दर्शनमुच्यते [ ] इत्यादि । एवम् अचक्षुर्दर्शनं 15 शेषेन्द्रियसामान्योपलब्धिलक्षणम् अचक्षुर्दर्शनिनः आत्मभावे जीवभावे भवतीति, अनेन श्रोत्रादीनां प्राप्तकारितामाह । उक्तं च- पुट्ठे सुणेइ सद्दं रूवं पुण पासती अपुट्ठ तु [आवश्यकनि० गा० ५ ] इत्यादि । अवधिदर्शनम् अवधिसामान्यग्रहणलक्षणम् अवधिदर्शनिनः सर्वरूपिद्रव्येषु, रूपिष्ववधेः [ तत्त्वार्थ० १२८] इति वचनाद् असर्वपर्यायेष्विति ज्ञानापेक्षमेतत्, न तु दर्शनोपयोगिनः, विशेषत्वात्, तथापि तद्वेदका 20 इत्युपन्यासः । केवलदर्शनं केवलिनः सामान्योपलम्भलक्षणं केवलदर्शनिनः सर्वद्रव्येषु धर्मास्तिकायादिषु सर्व पर्यायेष्विति च भावितार्थमेव । मनःपर्यायज्ञाने तु सामान्यार्थग्रहणासम्भवात् क्षयोपशमपटुत्वात् प्रथममेव विशेषग्रहणाद् दर्शनाभाव इति । तदेतद्दर्शनगुणप्रमाणम् ।
[ हे० ४७१] अथ दर्शनगुणप्रमाणमाह से किं तं दंसणगुणप्पमाणे इत्यादि । 25
Jain Education International
For Private & Personal Use Only
५१६
5
www.jainelibrary.org