________________
५१५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् श्रुतेः, अर्थस्य परम्परागमः, गणधरेणैव व्यवधानात् । तत: ऊर्ध्वं प्रभवादीनां सूत्रस्यार्थस्य च नात्मागमो नानन्तरागमः, तल्लक्षणायोगात्, अपि तु परम्परागम एव। अनेन चागमस्य तीर्थकरादिप्रभवत्वभणनेनैकान्तापौरुषेयत्वं निवारयति,
पौरुषताल्वादिव्यापारमन्तरेण नभसीव विशिष्टशब्दानुपलब्धेः । ताल्वादिभिरभिव्यज्यत 5 एव शब्दो न तु क्रियते इति चेत्, ननु यद्येवं तर्हि सर्ववचसामपौरुषेयत्वप्रसङ्गः, तेषां भाषापुद्गलनिष्पन्नत्वात्, भाषापुद्गलानां च लोके सर्वदैवावस्थानतोऽपूर्वक्रियमाणताऽयोगेन ताल्वादिभिरभिव्यक्तिमात्रस्यैव निर्वर्तनात् । न च वक्तव्यम्वचनस्य पौगलिकत्वमसिद्धम्, महाध्वनिपटलपूरितश्रवणबाधिर्य
कुड्यस्खलनाद्यन्यथानुपपत्तेः । तस्मान्नैकान्तेनापौरुषेयमागमवच:, ताल्वादिव्यापारा10 भिव्यङ्ग्यत्वात्, देवदत्तादिवाक्यवत्, इत्याद्यत्र बहु वक्तव्यं तत्तु नोच्यते, स्थानान्तरनिर्णीतत्वादिति । सेत्तं लोगुत्तरिए इत्यादि निगमनत्रयम् । उक्तं ज्ञानगुणप्रमाणम् ।
[सू० ४७१] से किं तं दंसणगुणप्पमाणे? दंसणगुणप्पमाणे चउविहे पण्णत्ते । तंजहा-चक्खुदंसणगुणप्पमाणे अचक्खुदंसणगुणप्पमाणे
ओहिदंसणगुणप्पमाणे केवलदंसणगुणप्पमाणे य । चक्खुदंसणं 15 चक्खुदंसणिस्स घड-पड-कड-रधादिएसु दव्वेसु, अचक्खुदंसणं
अचक्खुदंसणिस्स आयभावे, ओहिदसणं ओहिदंसणिस्स सव्वरूविदव्वेहिं न पुण सव्वपजवेहिं, केवलदंसणं केवलदंसणिस्स सव्वदव्वेहिं सव्वपजवेहि य । सेतं दंसणगुणप्पमाणे ।
[चू० ४७१] से किं तं दंसणगुणप्पमाणे? इत्यादि । भावचक्खिंदियावरणीयस्स 20 कम्मणो खयोवसमेण दव्विंदियस्स य णिरुवहयत्तणतो जीवस्स चक्खुद्दसणगुणो
उप्पज्जति, सो चेव प्रमाणं ति चक्खुद्दसणगुणप्पमाणं भण्णति । एवं सेसिदिएसु वि अचक्खुदंसणं भाणितव्वं । चक्खुदंसणं चक्खुदंसणिस्स घडादिएसु त्ति दव्वभाविंदियमपत्तमत्थं गेण्हइ त्ति ज्ञापितं भवति । अचक्खुदंसणं आयभावे त्ति
*. भावो खं० सं१ विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org