________________
अनुयोगद्वारसूत्रम् [ सू० ४६७-४७०]
५१४ इत्यादि, तत्र सूत्रमेव सूत्रागमः, तदभिधेयश्चार्थोऽर्थागमः, तदुभयरूप: तदुभयागमः । अथवा आगमस्त्रिविध: प्रज्ञप्तः, तद्यथा- आत्मागम इत्यादि, तत्रापरनिमित्त आत्मन एवाऽऽगम आत्मागमः, यथाऽर्हतामर्थस्याऽऽत्मागमः, स्वयमेवोपलब्धेः । गणधराणां सूत्रस्याऽऽत्मागमः, अर्थस्यानन्तरागमः, अनन्तरमेव भगवतः सकाशादर्थपदानि श्रुत्वा स्वयमेव सूत्रग्रन्थनादिति । उक्तम् - अत्थं भासइ अरहा सुत्तं 5 गंथंति गणहरा णिउणं [आवश्यकनि० गा० ९२] इत्यादि । गणधरशिष्याणां जम्बूस्वामिप्रभृतीनां सूत्रस्यानन्तरागम: गणधरादेव श्रुतेः, अर्थस्य परम्परागम: गणधरेणैव व्यवधानात्, तत ऊर्ध्वं प्रभवाद्यपेक्षया सूत्रस्याप्यर्थस्यापि नाऽऽत्मागमो नानन्तरागमः तल्लक्षणविरहात्, किन्तु परम्परागम इति । अनेन चैकान्तापौरुषेयागमव्यवच्छेदः, पौरुषं ताल्वादिव्यापारमन्तरेण नभस्येव 10 विशिष्टशब्दानुपलब्धः। अभिव्यक्त्यभ्युपगमे च सर्ववचसामपौरुषेयत्वम्, भाषाद्रव्याणां ग्रहणादिना विशिष्टपरिणामाभ्युपगमात् । उक्तं च- गिण्हइ य काइएणं णिसरति तह वाइएण जोगेणं। [आवश्यकनि० गा० ७] इत्यादि, कृतं विस्तरेण, निर्लोठितमेतदन्यत्रेति। सोऽयमागम इति निगमनम्, तदेतद् ज्ञानगुणप्रमाणम् ।
[हे० ४६७-४७०] से किं तं आगमे इत्यादि । गुरुपारम्पर्येणागच्छतीत्यागम:, 15 आ समन्ताद् गम्यन्ते ज्ञायन्ते जीवादय: पदार्था अनेनेति वा आगम: । अयं च द्विधा प्रज्ञप्त:, तद्यथा- लोइए इत्यादि, इदं चेहैव पूर्वं भावश्रुतं विचारयता व्याख्यातं यावत् सेत्तं लोगुत्तरिए आगमे त्ति । अहवा आगमे तिविहे इत्यादि, तत्र सूत्रमेव सूत्रागम:, तदभिधेयश्चार्थ एवार्थागमः, सूत्रार्थोभयरूपस्तु तदुभयागमः । अथवा अन्येन प्रकारेणाऽऽगमस्त्रिविधः प्रज्ञप्तः, तद्यथा- आत्मागम इत्यादि, तत्र 20 गुरूपदेशमन्तरेणात्मन एव आगम आत्मागमः, यथा तीर्थकराणामर्थस्यात्मागमः, स्वयमेव केवलोपलब्धेः। गणधराणां तु सूत्रस्यात्मागमः, स्वयमेव ग्रथितत्वात्, अर्थस्यानन्तरागमः, अनन्तरमेव तीर्थकरादागतत्वात् । उक्तं च
___ अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं [आवश्यकनि० ९२] इत्यादि। गणधरशिष्याणां जम्बूस्वामिप्रभृतीनां सूत्रस्यानन्तरागमः, अव्यवधानेन गणधरादेव 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org