________________
अनुयोगद्वारसूत्रम् [ सू० ४५८-४६६] हे० ४५८-४६६] अथोपमानमभिधित्सुराह- से किं तं ओवम्मे इत्यादि । उपमीयते सदृशतया वस्तु गृह्यते अनयेत्युपमा, सैवौपम्यम्, तच्च द्विविधम्साधर्म्यणोपनीतम् उपनयो यत्र तत् साधोपनीतम्, वैधये॒णोपनीतम् उपनयो यत्र तद् वैधोपनीतम् । तत्र साधोपनीतं त्रिविधम्- किञ्चित्साधादिभेदात् । किञ्चित्साधर्म्यं च मन्दर-सर्षपादीनाम्, तत्र मन्दर-सर्षपयोर्द्वयोरपि मूर्तत्वं सादृश्यम्, 5 समुद्र-गोष्पदयोः सोदकत्वमात्रम्, आदित्य-खद्योतयोराकाशगमनोद्योतकत्वरूपम्, चन्द्र-कुन्दयो: शुक्लत्वमिति ।
से किं तं पायसाहम्मे इत्यादि । खुर-ककुद-विषाण-लाङ्गलादेईयोरपि समानत्वात्, नवरं सकम्बलो गौर्वृत्तकण्ठस्तु गवय इति प्राय:साधर्म्यता । सर्वसाधर्म्य तु क्षेत्र-कालादिभिर्भेदान्न कस्यापि केनचित् सार्द्धं संभवति, संभवे त्वेकताप्रसङ्गः । 10 तर्युपमानस्य तृतीयभेदोपन्यासोऽनर्थक एवेत्याशङ्कयाह- तथापि तस्य विवक्षितस्याहंदादेस्तेनैव अर्हदादिना औपम्यं क्रियते, तद्यथा- अर्हता अर्हतः सदृशं कृतम्, तत् किमपि सर्वोत्तमं तीर्थप्रवर्तनादि कार्यमर्हता कृतं यदर्हनेव करोति नापरः कश्चिदिति भावः, एवं च स एव तेनोपमीयते । लोकेऽपि हि केनचिदत्यद्भुते कार्ये कृते वक्तारो दृश्यन्ते- तत् किमपीदं भवद्भिः कृतं यद् भवन्त एव कुर्वन्ति नान्य: 15 कश्चिदिति। एवं चक्रवर्ति-[बलदेव-]वासुदेवादिष्वपि वाच्यम् ।
से किं तं वेहम्मोवणीए इत्यादि। यथेति यादृश: शबलाया गोरपत्यं शाबलेयो न तथा न तादृशो बहुलाया अपत्यं बाहुलेयः, यथा चायं न तथेतरः, अत्र च शेषधर्मेस्तुल्यत्वाद्भिन्ननिमित्तजन्मादिमात्रतस्तु वैलक्षण्यात किञ्चिद्वैधवें भावनीयम् ।
से किं तं पायवेहम्मे इत्यादि । अत्र वायस-पायसयो: सचेतनत्वा- 20 ऽचेतनत्वादिभिर्बहुभिर्धमैर्विसंवादात् अभिधानगतवर्णद्वयेन सत्त्वादिमात्रतश्च साम्यात् प्रायोवैधर्म्यता भावनीया । सर्ववैधयं तु न कस्यचित् केनापि संभवति, सत्त्वप्रमेयत्वादिभिः सर्वभावानां समानत्वात्, तैरप्यसमानत्वेऽसत्त्वप्रसङ्गात्, तथापि तृतीयभेदोपन्यासवैयर्थ्यमाशङ्कयाह- तथापि तस्य तेनैवौपम्यं क्रियते, यथा नीचेन नीचसदृशं कृतं गुरुघातादीत्यादि । आह- नीचेन नीचसदृशं कृतमित्यादि ब्रुवता 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org