________________
५०७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् पटकालेऽपि तन्तव: सन्तीति सत्त्वेनोपयोगात्ते पटस्य कारणमुच्यन्ते, पटवियोजनकाले त्वेकैकतन्त्ववस्थायां पटो नोपलभ्यते अतस्तत्र सत्त्वेनोपयोगाभावान्नासौ तेषां कारणम्। एवं वीरण-कटादिष्वपि भावना कार्या । तदेवं यद् यस्य कार्यस्य कारणत्वेन निश्चितं तत् तस्य यथासम्भवं गमकत्वेन वक्तव्यमिति । 5 से किं तं गुणेणमित्यादि, निकषः कषपट्टगता कषितसुवर्णरेखा, तेन
सुवर्णमनुमीयते, यथा पञ्चदशादिवर्णकोपेतमिदं सुवर्णम्, तथाविधनिकषोपलम्भात्, पूर्वोपलब्धोभयसम्मतसुवर्णवत् । एवं शतपत्रिकादिपुष्पमत्र, तथाविधगन्धोपलम्भात्, पूर्वोपलब्धप्रदेशवत्, एवं लवण-मदिरा-वस्त्रादयोऽनेकभेदसम्भवतोऽनियतस्वरूपा अपि
प्रतिनियततथाविधरसास्वाद-स्पर्शादिगुणोपलब्धेः प्रतिनियतस्वरूपा: साधयितव्याः । 10 से किं तं अवयवेणमित्यादि, अवयवदर्शनेनावयवी अनुमीयते, यथा महिष:
अत्र, तदविनाभूतशृङ्गोपलब्धेः, पूर्वोपलब्धोभयसम्मतप्रदेशवत् । अयं च प्रयोगो वृतिवरण्डकाद्यन्तरितत्वादप्रत्यक्ष एवावयविनि द्रष्टव्यः, तत्प्रत्यक्षतायामध्यक्षत एव तत्सिद्धेरनुमानवैयर्थ्यप्रसङ्गादिति । एवं शेषोदाहरणान्यपि भावनीयानि, नवरं द्विपदं
मनुष्यादीत्यादि, मनुष्योऽयम्, तदविनाभूतपदद्वयोपलम्भात्, पूर्वदृष्टमनुष्यवत् । एवं 15 चतुष्पद-बहुपदेष्वपि । गोम्ही कर्णशृगाली। परियरबंधेण भडमित्यादि गाथा पूर्वं व्याख्यातैव, तदनुसारेण भावार्थोऽभ्यूह्य इति ।
__ से किं तं आसएणमित्यादि, आश्रयतीत्याश्रयो धूम-बलाकादिः, तत्र धूमादग्न्यनुमानं बलाकादेस्तु जलाद्यनुमानं प्रतीतमेव । आकारेगितादिभिश्च पूर्व व्याख्यातस्वरूपैर्देवदत्ताद्याश्रितैस्तदन्तर्गतमनोऽनुमानं सुप्रसिद्धमेव । अत्राह- ननु 20 धूमस्याग्निकार्यत्वात् पूर्वोक्तकार्यानुमान एव गतत्वात् किमिहोपन्यास: ? सत्यम्, किन्त्वग्न्याश्रयत्वेनापि लोके तस्य रूढत्वादत्राप्युपन्यास: कृत इत्यदोषः । तदेतत् शेषवदनुमानम् ।
से किं तं दिट्ठसाहम्मवमित्यादि, दृष्टेन पूर्वोपलब्धेनार्थेन सह साधर्म्य दृष्टसाधर्म्यम्, तद् गमकत्वेन विद्यते यत्र तद् दृष्टसाधर्म्यवत् । पूर्वदृष्टश्चार्थः कश्चित् 25 सामान्यत: कश्चित्तु विशेषतो दृष्टः स्यात्, अतस्तदादिदं द्विविधम्, सामान्यतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org