________________
५०६
10
अनुयोगद्वारसूत्रम् [ सू० ४४०-४५७] मत्पुत्रो न वेति सन्देहाद् युक्त एवानुमानोपन्यास इति कृतं प्रसङ्गेन ।
से किं तं सेसवमित्यादि, पुरुषार्थोपयोगिनः परिजिज्ञासितात् तुरगादेरादन्यो हेषितादिरर्थः शेष इहोच्यते, स गमकत्वेन यस्यास्ति तच्छेषवदनुमानम् । तच्च पञ्चविधम्, तद्यथा- कार्येणेत्यादि, तत्र कार्येण कारणानुमानं यथा हयम् अश्वं हेषितेन ‘अनुमिनुते' इत्यध्याहारः, हेषितस्य तत्कार्यत्वात्, तदाकर्ण्य हयोऽत्रेति या 5 प्रतीतिरुत्पद्यते तदिह कार्येण कार्यद्वारेणोत्पन्नं शेषवनुमानमुच्यत इति भावः । क्वचित्तु प्रथमतः शङ्ख शब्देनेत्यादि दृश्यते, तत्रोक्तानुसारत: सर्वोदाहरणेषु भावना कार्या ।
से किं तं कारणेणमित्यादि इह कारणेन कार्य मनुमीयते, यथा विशिष्टमेघोन्नतिदर्शनात् कश्चिद् वृष्ट्यनुमानं करोति, यदाह
रोलम्ब-गवल-व्याल-तमालमलिनत्विषः । वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः ॥१॥ [न्यायमञ्जर्याम् ] इति ।
एवं चन्द्रोदयाज्जलधिवृद्धिरनुमीयते कुमुदविकासश्च, मित्रोदयाज्जलरुहप्रबोधो घूकमदमोक्षश्च, तथाविधवर्षणात् सस्यनिष्पत्तिः कृषीवलमन:प्रमोदश्चेत्यादि, तदेवं कारणमेवेहानुमापकं साध्यस्य, नाकारणम्, तत्र कार्यकारणभाव एव केषाञ्चिद्विप्रतिपत्तिं पश्यस्तमेव तावन्नियतं दशर्यन्नाह- तन्तव: पटस्य कारणम्, न तु पटस्तन्तूनां 15 कारणम्, पूर्वमनुपलब्धस्य तस्यैव तद्भावे उपलम्भाद्, इतरेषां तु पटाभावेऽप्युपलम्भात् । अत्राह- ननु यदा कश्चिन्निपुण: पटभावेन संयुक्तानपि तन्तून् क्रमेण वियोजयति तदा पटोऽपि तन्तूनां कारणं भवत्येव, नैवम्, सत्त्वेनोपयोगाभावात्, यदेव हि लब्धसत्ताकं सत् स्वस्थितिभावेन कार्यमुपकुरुते तदेव तस्य कारणत्वेन व्यपदिश्यते, यथा मृत्पिण्डो घटस्य, ये तु तन्तुवियोगतोऽभावीभवता पटेन तन्तवः समुत्पद्यन्ते तेषां 20 कथं पट: कारणं निर्दिश्यते ? न हि ज्वराभावेन भवत अरोगितासुखस्य ज्वर: कारणमिति शक्यते वक्तुम्। यद्येवं पटेऽप्युत्पद्यमाने तन्तवोऽभावीभवन्तीति तेऽपि तत्कारणं न स्युरिति चेत्, नैवम्, तन्तुपरिणामरूप एव हि पटः, यदि च तन्तव: सर्वथाऽभावीभवेयुस्तदा मृदभावे घटस्येव पटस्य सर्वथैवोपलब्धिर्न स्यात्, तस्मात् १. “गम्भीरगर्जितारम्भनिर्भिन्नगिरिगह्वराः । रोलम्ब-गवल-व्याल-तमालमलिनत्विषः ।।१॥ त्वङ्गत्तडिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहाः । वृष्टिं व्यभिचरन्तीह नैवप्रायाः पयोमुचः ॥” इति जयन्तभट्टविरचितायां न्यायमञ्जर्या द्वितीय आहिके ॥ २. आरोगि० ख० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org