________________
5
५०५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् लक्षणविशिष्टलिङ्गोपलब्धेरिति । साधर्म्य-वैधर्म्यदृष्टान्तयोः सत्त्वेतराभावादयमहेतुरिति चेत्, नैवम्, हेतोः परमार्थेनैकलक्षणत्वात्, तद्बलेनैव गमकत्वोपलब्धेः । उक्तं च न्यायवादिना पुरुषचन्द्रेण
अन्यथाऽनुपपन्नत्वमात्रं हेतोः स्वलक्षणम् । सत्त्वासत्त्वे हि तद्धर्मो दृष्टान्तद्वयलक्षणे ॥१॥ [ ]
तद्धर्माविति अन्यथानुपपन्नत्वधर्मी, कथम्भूते सत्त्वासत्त्वे इत्याह- साधर्म्यवैधर्म्यरूपे दृष्टान्तद्वये लक्ष्येते निश्चीयेते दृष्टान्तद्वयलक्षणे, न च धर्मिसत्तायां धर्माः सर्वेऽपि सर्वदा भवन्त्येव, पटादेः शुक्लत्वादिधर्मैर्व्यभिचारात्, ततो दृष्टान्तयोः सत्त्वासत्त्वधर्मी यद्यपि क्वचिद्धेतौ न दृश्येते तथापि धर्मिस्वरूपमन्यथानुपपन्नत्वं 10 भविष्यति, न कश्चिद्विरोध इति भावः । यत्रापि धूमादौ दृष्टान्तयोः सत्त्वासत्त्वे हेतोदृश्येते तत्रापि साध्यान्यथानुपपन्नत्वस्यैव प्राधान्यात्तस्यैवैकस्य हेतुलक्षणताऽवसेया । तथा चाह
धूमादेर्यद्यपि स्यातां सत्त्वासत्त्वे च लक्षणे । अन्यथानुपपन्नत्वप्राधान्याल्लक्षणैकता ॥१॥ [ ]
किञ्च, यदि दृष्टान्ते सत्त्वासत्त्वदर्शनाद्धेतुर्गमक इष्यते तदा 'लोहलेख्यं वज्रम्, पार्थिवत्वात्, काष्ठादिवत्' इत्यादेरपि गमकत्वं स्यात् । अभ्यधायि च.. दृष्टान्ते सदसत्त्वाभ्यां हेतुः सम्यग् यदीष्यते ।
लोहलेख्यं भवेद्वजं पार्थिवत्वाद् द्वमादिवद् ॥१॥ [ ] इति ।
यदि च पक्षधर्मत्व-सपक्षसत्त्व-विपक्षासत्त्वलक्षणं हेतोस्त्रैरूप्यमभ्युपगम्यापि 20 यथोक्तदोषभयात् साध्येन सहान्यथानुपपन्नत्वमन्वेषणीयं तर्हि तदेवैकं लक्षणतया वक्तुमुचितम्, किं रूपत्रयेणेति । आह च
अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? ।
नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? ॥१॥ [ ] इत्यादि । अत्र बहु वक्तव्यम्, तत्तु नोच्यते ग्रन्थगहनताप्रसङ्गात्, अन्यत्र यत्नेनोक्तत्वाच्चेति। 25 आह- प्रत्यक्षविषयत्वादेवात्रानुमानप्रवृत्तिरयुक्ता, नैवम्, पुरुषपिण्डमात्रप्रत्यक्षतायामपि
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org