________________
अनुयोगद्वारसूत्रम् [सू० ४४०-४५७]
५०४ कर्णसृ(शृ)गाली। तथाऽऽश्रयेण अग्निं धूमेन, अत्राऽऽश्रयतीत्याश्रयो धूम एव गृह्यते, अयं चाग्निकार्यभूतोऽपि तदाश्रितत्वेन लोकरूढे देनोक्त इति । शेषोदाहरणयोजना सुगमा। तदेतच्छेषवदिति ।
से किं तं दिट्ठसाधम्मवं इत्यादि । दृष्टसाधर्म्यवद् द्विविधं प्रज्ञप्तम्, तद्यथासामान्यदृष्टं च विशेषदृष्टं च । तत्र सामान्यदृष्टम्- यथा एकः पुरुषः तथा बहव: 5 पुरुषा इत्यादि, सामान्यधर्मस्य तद्भावगमकत्वादिति । विशेषदृष्टं तु - पूर्वदृष्टपुरुषादिप्रत्यभिज्ञानम्, सामान्यधर्मादेव विशेषप्रतिपत्तेरित्यमुनांऽशेनाऽनुमानता । तस्स समासतो इत्यादि, तस्येति सामान्येनानुमानस्य समासत: संक्षेपेण त्रिविधं ग्रहणं भवति । तद्यथा- अतीतकालग्रहणमित्यादि, ग्रहणं परिच्छे दः, तत्रातीतकालग्रहणम्- उद्गततृणादीनि दृष्ट्वा तेन दर्शनेन तदन्यथानुपपत्त्या साध्यते यथा 10 सुवृष्टिरासीदिति । प्रत्युत्पन्नकालग्रहणं तु साधुं गोचराग्रगतं भिक्षाप्रविष्टं विच्छर्दितप्रचुरभक्त-पानम्, विच्छर्दितं गृहस्थपारिस्थापनिकया प्रचुरम् आपर्याप्तेः भक्त-पानं यस्य स तथाविधः, तं दृष्ट्वा तेन साध्यते सुभिक्षं वर्तत इति । अनागतकालग्रहणम्- अभ्रनिर्मलत्वादिभ्यः साध्यते भविष्यति वृष्टिरिति, विशिष्टानाममीषां व्यभिचाराभावात् । व्यत्यय: सूत्र इत्युक्तमनुमानम् । 15
[हे० ४४०-४५७] से किं तं अणुमाणे इत्यादि । अनु लिङ्गग्रहणसम्बन्धस्मरणस्य पश्चान्मीयते परिच्छिद्यते वस्त्वनेनेति अनुमानम् । तच्च त्रिविधम्पूर्ववत् शेषवत् दृष्टसाधर्म्यवच्चेति । से किं तं पुव्ववमित्यादि । विशिष्टं पूर्वोपलब्धं, चिह्नमिह पूर्वमुच्यते, तदेव निमित्तरूपतया यस्यानुमानस्यास्ति तत् पूर्ववत्, तद्द्वारेण गमकमनुमानं पूर्ववदिति भावः । तथा चाह- माता पुत्तमित्यादि श्लोकः । यथा माता 20 स्वकीयं पुत्रं बालावस्थायां नष्टं युवानं सन्तं कालान्तरेण पुनः कथमप्यागतं काचित् तथाविधस्मृतिपाटववती, न सर्वा, पूर्वदृष्टेन लिङ्गेन केनचित् क्षतादिना प्रत्यभिजानीयात् मत्पुत्रोऽयमिति अनुमिनुयादित्यर्थः, केन पुनर्लिङ्गेनेत्याह- क्षतेन वेत्यादि, स्वदेहोद्भवमेव क्षतम्, आगन्तुकस्तु श्वदंष्ट्रादिकृतो व्रण:, लाञ्छन-मषतिलकास्तु प्रतीताः । तदयमत्र प्रयोगः- मत्पुत्रोऽयम्, अनन्यसाधारणक्षतादि- 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org