________________
५०३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम्
अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? । - नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? ॥१॥ [ ] इत्यत्र बहु वक्तव्यम्, तच्च ग्रन्थविस्तरभयादन्यत्र च यत्नेनोक्तत्वान्नाभिधीयत इति । [आह-] प्रत्यक्षविषयत्वादेवास्यानुमानत्वकल्पनमयुक्तम्, न, पिण्डपरिच्छित्तावपि पुत्रो । न पुत्र इति सन्देहात् पिण्डमात्रस्य च प्रत्यक्षविषयत्वाद् मत्पुत्रोऽयमिति च प्रतीतेस्तल्लिङ्गत्वादिति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । तद्भवं क्षतम्, आगन्तुको व्रणः, लाञ्छन-मश-तिलकाः प्रतीता:, तदेतत् पूर्ववदिति ।
से किं तं सेसवमित्यादि । उपयुक्ताद् योऽन्यः स शेष: इति कार्यादि गृह्यते, तदस्यास्तीति शेषवद्, भावना पूर्ववदिति। पञ्चविधं प्रज्ञप्तम्, तद्यथा- कार्येणेत्यादि, 10 तत्र कार्येण कारणानुमानं यथा हयम् अश्वं हिं(हे)सितेन शब्दविशेषेण अनमिन्वते'
इत्यध्याहारः, तत्कार्यत्वाद्धेसि(षि)तस्य । एवं शेषोदाहरणयोजनाऽपि कार्येति । तथा कारणेन- तन्तव: पटकारणं न पट: तन्तुकारणमित्यनेनैतद् ज्ञापयति- कारणमेव कार्यानुमापकम्, नाकारणं पट: तन्तूनाम्, तत्कार्यत्वात् तस्य । आह-निपुणवियोजने
तत एव तन्तुभावात् पटोऽपि तन्तुकारणमिति, ननु सत्त्वेनोपयोगित्वाभावात् तदभाव 15 एव तन्तुभावादिति, न चैवं पटोत्पत्तौ सर्वथैव तन्त्वभाव:, तेषामेव
तथापरिणतिभावेनोपयोगात्, न चेत्थं पटपरिणाम एव तन्तव:, सत्त्वेनोपयोगित्वाभावाद् भावे च पटभावेऽपि तन्तुवत् पुनस्तन्तुभावेऽपि पट उपलभ्येत, न चोपलभ्यत इत्यतस्तन्तव: पटकारणम्, न पट: तन्तुकारणमिति स्थितम् । इदं च मेघोन्नति:
वृष्टिकारणम्, चन्द्रोदय: समुद्रवृद्धः कुमुदविकासस्य चेत्याधुपलक्षणं वेदितव्यम् । 20 गुणेन- सुवर्णं निकषेण, तद्गतरूपातिशयेनाऽन्ये, तद्गुणत्वात् तस्य, एवं
शेषोदाहरणयोजनाऽपि कार्या । अवयवेन- सिंह दंष्ट्रया, तदवयवत्वात् तस्याः । आहतदुपलब्धौ तस्यापि प्रत्यक्षत एवोपलब्धेः कथमनुमानविषयता ? उच्यते- व्यवधाने सत्यतीतानुमेयत्वाद्वा न दोषः । एवं शेषोदाहरणयोजना कार्येति । नवरं
मा(म)नुष्यादिष्ववयवोऽभ्यूह्यत इत्येके, अन्ये तु द्विपदमित्येवमादिक25 मेवावयवमभिदधति, मनुष्योऽयम्, तदविनाभूतपदद्वयोपलब्ध्यन्यथानुपपत्तेरिति, गोम्ही
Jain Education International
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org