________________
अनुयोगद्वारसूत्रम् [ सू० ४४०-४५७]
५०२ पूर्वम् अविसंवादिमेघोन्नति: वृष्टेः, कार्य पूर्वम् अविसंवादिनी वृष्टिर्मेघोन्नते:, एवमेतद् द्विधा भवति पूर्ववत् । उवलद्धातो सेसं अण्णं ति वुत्तं भवति, तं च उवलद्धे अत्थे अव्यभिचारसम्बधेन संबद्धत्तणतो उवलंभतो, लवणजलधेरुद्धृतैकाञ्जलिलावण्यवत् शेषस्य लावण्यं ज्ञायते [इति] सेसवं भन्नति । पूर्वदृष्टेषु वा पश्चादुपलब्धमर्थं तस्मिन् पूर्वदृष्टेऽर्थे धर्मसमानतया अनुमिन्वतो दृष्टसाधानुमानं नाम प्रमाणं भवति । सेसं 5 कंठं। तस्स समासतो तिविहं गहणं इत्यादि । तस्य इत्येतदनुमानं परिगृह्यते, समासतो त्ति संखेवतो, सव्वभेदेसु त्ति वुत्तं भवति । वातुब्भामो ति उप्पाबल्लेण पसत्थस्स भमणं वातुन्भामो भण्णति, अहवा प्रदक्षिणं दिक्षु वातस्स भमणं वातुब्भामो । सेसं कंठं ।
[हा० ४४०-४५७] अधुनाऽनुमानमुच्यते, तथा चाहु- से किं तं अणुमाणे? 10 अनुमानं त्रिविधं प्रज्ञप्तम्, तद्यथा- पूर्ववत् शेषवत् दृष्टसाधर्म्यवच्चेति । से किं तं पुव्ववमित्यादि, विशेषत: पूर्वोपलब्धं लिङ्गं पूर्वमित्युच्यते, तदस्थास्तीति पूर्ववत्, तद्वारेण गमकमनुमानं पूर्ववदिति भावः । तथा चाह- माता पुत्तं इत्यादि, माता पुत्रं यथा नष्टं बालावस्थायां युवानं पुनरागतं कालान्तरेण काचित् स्मृतिमती प्रत्यभिजानीयात् मत्पुत्रोऽयमित्यनुमिनुयात् पूर्वलिङ्गेनोक्तस्वरूपेण केनचित् । तद्यथा 15 - क्षतेन वेत्यादि, मत्पुत्रोऽयम्, तदसाधारणलिङ्गक्षतोपलब्ध्यन्यथानुपपत्तेः । साधर्म्यवैधर्म्यदृष्टान्तयोः सत्त्वेतराभावादयमहेतुरिति चेत्, न, हेतोः परमार्थेनैकलक्षणत्वात् तत्प्रभावत एव ममत्वोपलब्धे: । उक्तं च न्यायवादिना पुरुषचन्द्रेण
अन्यथानुपपन्नत्वमा हेतोः स्वलक्षणम् ।
सत्त्वासत्त्वे हि तद्धौ दृष्टान्तद्वयलक्षणे ॥१॥ [ . ] तदभावेतराभ्यां तयोरेव स्वलक्षणायोगादिति भावना । तथा -
धूमादेर्यद्यपि स्यातां सत्त्वा-ऽसत्त्वे च लक्षणे । अन्यथानुपपन्नत्वप्राधान्याल्लक्षणैकता ॥२॥ [ ]
किञ्च - १. तद्धर्मों प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org