________________
अनुयोगद्वारसूत्रम् [ सू० ४४०-४५७]
५०८ दृष्टार्थयोगात् सामान्यदृष्टम्, विशेषतो दृष्टार्थयोगाद्विशेषदृष्टम् । तत्र सामान्यदृष्टम्- यथा एकः पुरुषस्तथा बहवः पुरुषा इत्यादि । इदमुक्तं भवति- नालिकेरद्वीपादायात: कश्चित् तत्प्रथमतया सामान्यत एकं कञ्चन पुरुषं दृष्ट्वा अनुमानं करोति यथा अयमेक: परिदृश्यमान: पुरुष एतदाकारविशिष्टस्तथा बहवोऽत्रापरिदृश्यमाना अपि पुरुषा एतदाकारसम्पन्ना एव, पुरुषत्वाविशेषात्, अन्याकारत्वे पुरुषत्वहानिप्रसङ्गात्, गवादिवत्। 5 बहुषु तु पुरुषेषु तत्प्रथमतो वीक्षितेष्वेवमनुमिनोति- यथाऽमी परिदृश्यमाना: पुरुषा एतदाकारवन्त: तथाऽपरोऽप्येकः कश्चित् पुरुष: एतदाकारवानेव, पुरुषत्वाद्, अपराकारत्वे तद्धानिप्रसङ्गात्, अश्वादिवदिति । एवं कार्षापणादिष्वपि वाच्यम् ।
विशेषतो दृष्टमाह- जहानामए इत्यादि, अत्र पुरुषा: सामान्येन प्रतीता एव, केवलं यदा कश्चित् क्वचित् कञ्चित् पुरुषविशेषं दृष्ट्वा 10 तद्दर्शनाहितसंस्कारोऽसञ्जाततत्प्रमोष: समयान्तरे बहुपुरुषसमाजमध्ये तमेव पुरुषविशेषमासीनमुपलभ्यानुमानयति- य: पूर्वं मयोपलब्धः स एवायं पुरुषः, तथैव प्रत्यभिज्ञायमानत्वात्, उभयाभिमतपुरुषवदिति । एतत्तदा विशेषदृष्टमनुमानमुच्यते, पुरुषविशेषविषयत्वात् । एवं कार्षापणादिष्वपि वाच्यम् ।
तदेवमनुमानस्य त्रैविध्यमुपदर्य साम्प्रतं तस्यैव कालत्रयविषयतां दर्शयन्नाह- 15 तस्स समासतो तिविहं गहणमित्यादि, तस्येति सामान्येनानुवर्तमानमनुमानमात्रं संबध्यते, तस्यानुमानस्य त्रिविधं ग्रहणं भवति, तद्यथा- अतीतकालविषयं ग्रहणं ग्राह्यस्य वस्तुनः परिच्छेदोऽतीतकालग्रहणम्, प्रत्युत्पन्नो वर्तमान: कालस्तद्विषयं ग्रहणं प्रत्युत्पन्नकालग्रहणम्, अनागतो भविष्यत्कालस्तद्विषयं ग्रहणमनागतकालग्रहणम्, कालत्रयवर्तिनोऽपि विषयस्यानुमानात् परिच्छेदो भवतीत्यर्थः । तत्र 20 उत्तिणाई ति उद्गतानि तृणानि येषु वनेषु तानि तथा, अयमत्र प्रयोग:- सुवृष्टिरिहासीत्, उत्तृणवन-निष्पन्नसस्यपृथ्वीतल-जलपरिपूर्णकुण्डादिजलाशयप्रभृतितत्कार्यदर्शनात्, अभिमतदेशवदित्यतीतस्य वृष्टिलक्षणविषयस्य परिच्छेदः । साधु च गोचराग्रगतं भिक्षाप्रविष्टं विशेषेण छर्दितानि गृहस्थैर्दत्तानि प्रचुरभक्तपानानि यस्य स तथा तं तादृशं दृष्ट्वा कश्चित् साधयति- सुभिक्षमिह वर्तते, साधूनां तद्धेतुकप्रचुरभक्त-पानलाभदर्शनात्, 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org