________________
४९८
अनुयोगद्वारसूत्रम् [ सू० ४४०-४५७] शब्दादिज्ञानं तदिन्द्रियप्रत्यक्षं व्यावहारिकम्। नोइन्द्रियप्रत्यक्षं तु यदात्मन एवालैङ्गिकमवध्यादीति समासार्थ: । व्यासार्थस्तु नन्द्यध्ययनविशेषविवरणादवसेय: । अक्षराणि तु सुगमान्येव यावत् प्रत्यक्षाधिकार इति । उक्तं प्रत्यक्षम् ।
[हे० ४३५-४३९] से किं तं जीवगुणप्पमाणे इत्यादि । जीवस्य गुणा ज्ञानादयस्तद्रूपं प्रमाणं जीवगुणप्रमाणम् । तच्च ज्ञान-दर्शन-चारित्रगुणभेदात् त्रिधा । 5 तत्र ज्ञानरूपो यो गुणस्तद्रूपं प्रमाणं चतुर्विधम्, तद्यथा- प्रत्यक्षमनुमानमुपमानमागमः । तत्र अशू व्याप्तौ [पा० धा० १२६५, का० धा० ४।२२] इत्यस्य धातोरश्नुते ज्ञानात्मना अर्थान् व्याप्नोतीति अक्षो जीव:, अश भोजने [पा० धा० १५२४, का० धा० ८।४३] इत्यस्य वा अनाति भुङ्क्ते पालयति वा सर्वार्थानित्यक्षो जीव एव, प्रतिगतम् आश्रितमक्षं प्रत्यक्षमिति, अत्यादय: क्रान्ताद्यर्थे द्वितीयया [पा० वा० १३३६] इति 10 समासः, जीवस्यार्थसाक्षात्कारित्वेन यद् ज्ञानं वर्तते तत् प्रत्यक्षमित्यर्थः । अन्ये त्वक्षमक्षं प्रति वर्तत इत्यव्ययीभावसमासं विदधति, तच्च न युज्यते, अव्ययीभावस्य नपुंसकलिङ्गत्वात् प्रत्यक्षशब्दस्य त्रिलिङ्गता न स्यात्, दृश्यते चेयम्- प्रत्यक्षा बुद्धिः, प्रत्यक्षो बोधः, प्रत्यक्ष ज्ञानमिति दर्शनात् । ततो यथादर्शितस्तत्पुरुष एवायम् । तच्च प्रत्यक्षं द्विविधम्- इन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं च । तत्रेन्द्रियं श्रोत्रादि, तन्निमित्तं 15 सहकारिकारणं यस्यो त्पित्सोस्तदलैङ्गिकं शब्द-रूप-रस-गन्धस्पर्शविषयज्ञानमिन्द्रियप्रत्यक्षम् । इदं चेन्द्रियलक्षणं जीवात् परं व्यतिरिक्तं निमित्तमाश्रित्योत्पद्यते इति धूमादग्निज्ञानमिव वस्तुतोऽर्थसाक्षात्कारित्वाभावात् परोक्षमेव, केवलं लोकेऽस्य प्रत्यक्षतया रूढत्वात् संव्यवहारतोऽत्रापि तथोच्यत इत्यलं विस्तरेण, तदाकाङ्गिणा तु नन्द्यध्ययनमन्वेषणीयम् । इन्द्रियप्रत्यक्षं तु यन्न भवति 20 तन्नोइन्द्रियप्रत्यक्षम्, नोशब्दस्य सर्वनिषेधपरत्वात्, यत्रेन्द्रियं सर्वथैव न प्रवर्तते किन्तु जीव एव साक्षादर्थं पश्यति तन्नोइन्द्रियप्रत्यक्षम्, अवधि-मन:पर्याय-केवलाख्यमिति भावार्थः ।
[सू० ४४०] से किं तं अणुमाणे ? अणुमाणे तिविहे पण्णत्ते । तं०-पुव्ववं सेसवं दिट्ठसाहम्म ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org