________________
४९७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् पं० । तं०-ओहिणाणपच्चक्खे मणपज्जवणाणपच्चक्खे केवलणाणपच्चक्खे । सेतं णोइंदियपच्चक्खे । सेतं पच्चक्खे ।
[चू० ४३५-४३९] से किं तं जीवगुणप्पमाणे ? इत्यादि । णाणं जीवस्स गुणो, तस्य स्वविषये प्रमाणं भेदप्रमाणं च स्वरूपं वक्तव्यमिति नाणगुणप्पमाणे त्ति 5 भणितं । एवं दंसण-चरणगुणा वि भाणितव्वा । अक्ष इत्यात्मा इन्द्रियाणि वा, तं तानि वा प्रति वर्तते यत् तत् प्रत्यक्षम् । धूमादग्निज्ञानवद् अनुमानम् । यथा गौस्तथा गवय इति औपम्यम् । आगमो ह्याप्तवचनम्, आयरियपरंपरागतो वा आगमः ।
अविकलद्रव्येन्द्रियद्वारोत्पन्नमात्मनो यद् ज्ञानं तद् इन्द्रियप्रत्यक्षम् । अवधिमन:पर्याय-केवलज्ञानावरणापगमे विशुद्धात्मोपलब्धि: ज्ञानं यत् तद् नोइन्द्रियप्रत्यक्षम्। 10 सेसं कंठं ।
हा० ४३५-४३९] से किं तं जीवगुणप्पमाणे? इत्यादि । जीवति जीविष्यति जीवितवान् वा जीव:, तस्य गुणा ज्ञानादय एव, त एव प्रमाणहेतुत्वात् तदात्मकत्वाच्च प्रमाणं जीवगुणप्रमाणं त्रिविधं प्रज्ञप्तम् - ज्ञानगुणप्रमाणमित्यादि, ज्ञानादीनां
जीवगुणत्वादिति भाव: । आह- सहवर्तिनो गुणा: क्रमवर्तिन: पर्यायाः [ ] इति 15 न्यायः, न चैतत(चैते?) सहवर्तिनः, कादाचित्कत्वादिति, उच्यते - ज्ञान-दर्शनयोः
सामान्येन सहवर्तित्वात् चारित्रस्यापि सिद्ध्याख्यफलापेक्षयोपचारेण तद्भावान्न दोष इति । गुरवस्तु व्याचक्षते- क्रमवर्तिनो गुणा: सहवर्तिन: पर्याया इत्येतदव्यापकमेव, परिस्थूरदेशनाविषयत्वात्, भावे चैतल्लक्षणमिति न दोषः ।
से किं तमित्यादि, अथ किं तद् ज्ञानगुणप्रमाणम् ?, ज्ञानगुणप्रमाणं चतुर्विधं 20 प्रज्ञप्तम्, तद्यथा- प्रत्यक्षमित्यादि, तत्र प्रतिगतमक्षं प्रत्यक्षम्,
अनुमीयतेऽनेनेत्यनुमानम्, उपमीयतेऽनेनेत्युपमानम्, गुरुपारम्पर्येणाऽऽगच्छतीत्यागम: आप्तवचनम् । अथ किं तत् प्रत्यक्षम् ?, प्रत्यक्षं द्विविधं प्रज्ञप्तम्, तद्यथाइन्द्रियप्रत्यक्षं च नोइन्द्रियप्रत्यक्षं च । तत्रेन्द्रियं श्रोत्रादि, तन्निमित्तं यदलैङ्गिकं १. 'सहवर्तिनो गुणाः क्रमवर्तिनः पर्याया इत्येतदव्यापकमेव' इति पाठोऽत्र संभवितुमर्हती भाति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org