________________
४९५ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् [चू० ४२७-४३४] से किं तं भावप्पमाणे इत्यादि । भवनं भूतिर्भावः, तत्र ज्ञानं भावप्रमाणम्, तस्य वा प्रमाणं भावप्रमाणम् ।
गुणप्पमाणे इत्यादि । गुणनं गुणः, प्रमितिः प्रमाणम्, प्रमीयते वाऽनेनेति प्रमाणम्, गुणप्रमाणं गुणेन द्रव्यं प्रमीयते, ज्ञायते इत्यर्थः, अहवा द्रव्यगुणाः प्रमीयन्त 5 इति गुणप्रमाणम्, गुणेषु वा ज्ञानं गुणप्रमाणम्, गुणप्पमाणे इत्येतत्प्ररूपणेत्यर्थः । नीतिर्नयः, नयेषु प्रमाणं नयप्रमाणम् नयेषु ज्ञानमित्यर्थः, अथवा नया एव प्रमाणं नयप्रमाणम्, नयज्ञानमित्यर्थः, नयानां वा प्रमाणं नयप्रमाणम्, नयसंख्येत्यर्थः । संख्याकरणज्ञानं संख्याप्रमाणम् ।
से किं तं गुणप्पमाणे ? इत्यादि कंठं जाव अजीवगुणप्पमाणं (ण) सुत्तं ।
[हा० ४२७-४३४] साम्प्रतं भावप्रमाणमभिधित्सुराह से किं तं भावप्पमाणे इत्यादि । भवनं भूतिर्वा भावः वर्णादि ज्ञानादि । प्रमिति:, प्रमीयतेऽनेन, प्रमिणोतीति वा प्रमाणम् । ततः स्वभाव एव प्रमाणविषयत्वात् अतः प्रमाणरूपत्वाच्च प्रमाणं भावप्रमाणं त्रिविधं प्रज्ञप्तम्- तद्यथा- गुणप्रमाणमित्यादि, गुणनं गुणः, स एव प्रमाणहेतुत्वाद् द्रव्यप्रमाणात्मकत्वाच्च प्रमाणं गुणप्रमाणम्, प्रमीयते च गुणैर्द्रव्यमिति । 15 तथा नीतयो नयाः अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छित्तयः तद्विषया वा ते व वा प्रमाणं नयप्रमाणम्, नयसमुदायात्मकत्वाद्वा स्याद्वादस्य समुदाय समुदायिनोः कथञ्चिदभेदात् नया एव प्रमाणं नयप्रमाणम् । नयसङ्ख्येति चाऽन्ये, नयानां प्रमाणं नयप्रमाणमिति कृत्वा । संख्यानं संख्या, सैव प्रमाणहेतुत्वात् संवेदनापेक्षया स्वतस्तदात्मकत्वाच्च प्रमाणं सङ्ख्याप्रमाणम् । आह- सङ्ख्या गुण एव, यत 20 उक्तम्- संख्यापरिमाणे [ ] इत्यादि, तत् किमर्थं भेदाभिधानमिति ?, उच्यतेप्राकृतशैल्या समानश्रुतावप्यनेकधाऽर्थप्रतिपादनार्थम्, वक्ष्यति च नामादिभेदतः सङ्ख्यामप्यधिकृत्यानेकधैतामिति । शेषं सूत्रसिद्धं यावदजीवगुणप्रमाणमिति ।
[हे० ४२७-४३४] अथ भावप्रमाणमभिधित्सुराह . से किं तं भावप्पमाणे इत्यादि । भवनं भावो वस्तुनः परिणामो ज्ञानादिर्वर्णादिश्च । प्रमिति:, प्रमीयते अनेन, १. नयज्ञानमित्यर्थः नास्ति जेर ॥ २. प्यमाणं संमत्तं जेर विना ॥ ३ ( ततश्च भाव ? ) ॥
10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org