________________
४८७ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् दो दो नव सत्तेव य अंकद्वाणा पराहुत्ता ||२||[ ] तदेवमेतेष्वेकोनत्रिंशदङ्कस्थानेषु जघन्यपदिनो गर्भजमनुष्या वर्तन्ते इति स्थितम् । अमुमेवार्थं प्रकारान्तरेणाह - अहवणं छन्नउईच्छेयणगदाई रासि त्ति, छेदनकं राशेरर्द्धाकरणम्, ततः षण्णवतिच्छेदनानि यो राशिर्ददाति पर्यन्ते च परिपूर्णैकरूपपर्यवसितो 5 भवति न तु खण्डितरूपपर्यवसितः स प्रकृतमनुष्यसङ्ख्यास्वरूपो मन्तव्यः । स चायमेवैकोनत्रिंशदङ्कस्थाननिष्पन्नोऽनन्तरदर्शितो नान्यः । अयं हि पुनः पुनश्छिद्यमानोऽर्द्धक्रियमाणः षण्णवतिच्छेदान् क्षमते, पर्यन्ते च परिपूर्णैकरूपपर्यवसितो भवतीति षण्णवतिच्छेदनकदायी प्रोच्यते । कथं पुनरत्र षण्णवतिच्छेदनानि भाव्यन्ते ? उच्यते- प्रथमो वर्गश्चतुष्टयरूपो यो दर्शितस्तत्र द्वे छेदने भवतः, तथाहि - चतुर्णामर्द्धे 10 द्वौ, तयोरप्यर्द्धे एक इत्येवमुत्तरेष्वपि वर्गेषु भावनीयम् । द्वितीये तु वर्गे चत्वारि छेदनानि संपद्यन्ते, तृतीये अष्टौ चतुर्थे षोडश, पञ्चमे द्वात्रिंशत्, षष्ठे चतुःषष्टिः, पञ्चमस्तु षष्ठेन गुणित आस्ते, अतः पञ्चमसत्कान्यपि छेदनकानि षष्ठे प्रविष्टानि प्राप्यन्त इत्युभयगतान्यपि मील्यन्ते, ततो जातानि प्रस्तुतराशौ षण्णवतिच्छेदनकानि, स्वयमेव वा पुनः पुनश्छेदं कृत्वा अभियुक्तेन भावनीयानि । तदेवं जघन्यपदमुक्तम् ।
15
9
अथोत्कृष्टपदमभिधित्सुराह उक्कोसपए असंखेज्ज ति, उत्कृष्टपदे मनुष्यबद्धान्यौदारिकशरीराण्यसङ्घयेयानि कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि । क्षेत्रतस्त्वेकस्मिन् मनुष्यशरीररूपे प्रक्षिप्ते तैर्मनुष्यशरीरैरेका नभःप्रदेशश्रेणिरपहियते कियता कालेनेत्याह- असङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः, कियता क्षेत्रखण्डापहारेणेत्याह- अंगुलपढमवग्गमूलं तइयवग्गमूलपडुप्पण्णन्ति, 20 श्रेणेरङ्गुलप्रमाणे क्षेत्रे य: प्रदेशराशिस्तस्य यत् प्रथमं वर्गमूलं तत्तृतीयवर्गमूलप्रदेशराशिना गुण्यते, गुणिते च यः प्रदेशराशिर्भवति तत्प्रमाणं क्षेत्रखण्डमेकैकं मनुष्यशरीरं प्रतिसमयमपहरति, इदमुक्तं भवति - श्रेणेर्मध्याद् यथोक्तप्रमाणं क्षेत्रखण्डं यद्येकैकं मनुष्यशरीरं क्रमेण प्रतिसमयमपहरति तदाऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः सर्वापि श्रेणिरपह्रियते यद्येकं मनुष्यशरीरं स्यात्, तच्च नास्ति, सर्वोत्कृष्टानामपि समुदितगर्भज25 संमूर्च्छजमनुष्याणामेतावतामेव भावादिति । तदेवं मनुष्याणां बद्धान्यौदारिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org