________________
10
अनुयोगद्वारसूत्रम् [ सू० ४२३]
४८६ अतो वृद्धिरहितत्वादेष वर्ग एव न गण्यते । द्वयोश्च वर्गश्चत्वारो भवन्तीत्येष प्रथमो वर्ग: ४, चतुर्णां वर्ग: षोडशेति द्वितीयो वर्ग: १६ । षोडशानां वर्गो द्वे शते षट्पञ्चाशदधिके इति तृतीयो वर्ग: २५६ । अस्य राशेर्वर्ग: पञ्चषष्टिसहस्राणि पञ्च शतानि षट्त्रिंशदधिकानीति चतुर्थो वर्ग: ६५५३६ । अस्य राशेर्वर्ग: सार्द्धगाथया प्रोच्यते
चत्तारि य कोडिसया अउणत्तीसं च हुंति कोडीओ। अउणावन्नं लक्खा सत्तढिं चेव य सहस्सा ॥१॥ दो य सया छन्नउया पंचमवग्गो इमो विणिद्दिट्ठो [ ] त्ति ।
अङ्कतोऽप्येष दर्श्यते- ४२९४९६७२९६ । अस्यापि राशेर्गाथात्रयेण वर्ग: प्रतिपाद्यते
लक्खं कोडाकोडीण चउरसीयं भवे सहस्साई । चत्तारि य सत्तट्ठा हुँति सया कोडकोडीणं ॥१॥ चोयालं लक्खाइं कोडीणं सत्त चेव य सहस्सा । तिन्नि य सया य सत्तरि कोडीणं हुंति नायव्वा ॥२॥ पंचाणउई लक्खा एगावन्नं भवे सहस्साई। छस्सोलसोत्तरसया एसो छट्ठो हवइ वग्गो ॥३॥ [ ]
अङ्कतोऽपि दर्श्यते- १८४४६७४४०७३७०९५५१६१६ । तदयं षष्ठो वर्ग: पूर्वोक्तेन पञ्चमवर्गेण गुण्यते, तथा च सति या सङ्ख्या भवति तस्यां जघन्यपदिनो गर्भजमनुष्या वर्तन्ते । सा चेयम्- ७९२२८१६२५१४२६४३३७५९३५४३९५०३३६। अयं च राशि: कोटीकोट्यादिप्रकारेण केनाप्यभिधातुं न शक्यते, अत: 20 पर्यन्तादारभ्याङ्कमात्रसङ्ग्रहार्थं गाथाद्वयम्
छत्तिन्नि तिन्नि सुन्नं पंचेव य नव य तिन्नि चत्तारि । पंचेव तिणि नव पंच सत्त तिन्नेव तिन्नेव ॥१॥ चउ छ हो चउ एक्को पण दो छक्केक्कगो य अद्वेव ।
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org