________________
४८५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् निर्लेपत्वसम्भवात् । यदा तु भवन्ति तदा जघन्यत एको द्वौ त्रयो वा उत्कृष्टतस्त्वसङ्ख्याताः । इतरे तु सर्वदैव सङ्ख्यया भवन्ति, नासङ्ख्येयाः, तत्र सम्मूछेजा यदा न भवन्ति तदैव जघन्यपदिनो गर्भजा एव गृह्यन्ते, अन्यथा
जघन्यपदवर्तित्वमेव न स्यात्, ते च स्वभावात् सङ्ख्येया एव, अतस्तच्छरीराण्यपि 5 बद्धानि सङ्ख्येयान्येव, अत उक्तम्- जहण्णपए संखेज्ज त्ति । सङ्ख्येयकस्य सङ्ख्यातभेदत्वान्न ज्ञायते कियदपि सङ्ख्येयकमित्याह- सङ्ख्येया: कोटयः, पुनर्विशेषितं तमाह- तिजमलपयस्स उवरिं चउजमलपयस्स हे? त्ति । इदमुक्तं भवतिअष्टानामष्टानामङ्कस्थानानां यमलपदमिति सामयिकी संज्ञा, ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदं चतुर्विंशत्यङ्कस्थानलक्षणम्, अथवा तृतीयं यमलपदं त्रियमलपदम्, 10 षोडशानामङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमिति स एवार्थः, तस्य त्रियमलपदस्य
उपरि प्रस्तुतमनुष्या भवन्ति, चतुर्विंशत्यङ्कस्थानान्यतिक्रम्य जघन्यपदवर्तिनां गर्भजमनुष्याणां सङ्ख्या वर्तत इत्यर्थः । तर्हि चतुरादीन्यपि यमलपदानि भवन्ति ? नेत्याह-, चउजमलपदस्स हे? त्ति, चतुर्णां यमलपदानां समाहारश्चतुर्यमलपदं
द्वात्रिंशदङ्कस्थानलक्षणम्, अथवा चतुर्थं यमलपदं चतुर्यमलपदं 15 चतुर्विंशतेरङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमित्येक एवार्थः, तस्य
चतुर्यमलपदस्याधस्तादेकोनत्रिंशदङ्कस्थानेष्वनन्तरमेव वक्ष्यमाणस्वरूपेषु प्रकृतमनुष्यसङ्ख्या वर्तत इति भावः । अथवा द्वौ वर्गावनन्तरमेव वक्ष्यमाणस्वरूपौ यमलपदमिति सामयिक्येव परिभाषा, ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदं
वर्गषट्कलक्षणं तस्योपरि, चतुर्यमलपदस्य तु वर्गाष्टकलक्षणस्याधस्तादेतन्मनुष्यसङ्ख्या 20 लभ्यते, षष्ठवर्गस्योपरि सप्तमवर्गस्य त्वधस्तात् प्रस्तुतमनुष्यसङ्ख्या प्राप्यत इति
हृदयम्, अत्रापि तान्येवैकोनत्रिंशदङ्कस्थानानि मन्तव्यानि । अथवा किमेतैरस्फुटै: प्रकारैः, स्फुटतरमेव प्रकारमाह- अहवणमित्यस्य शब्दस्य सपाठान्तरस्य व्याख्या पूर्ववत्, षष्ठवर्ग: पञ्चमवर्गेण यदा प्रत्युत्पन्नो गुणितो भवति तदा प्रस्तुतमनुष्यसङ्ख्या
समागच्छतीत्यर्थः । अथ कोऽयं षष्ठो वर्ग: कश्च पञ्चम इति ?, अत्रोच्यते, विवक्षित: 25 कश्चिद्राशिस्तेनैव राशिना यत्र गुण्यते स तावद्वर्गः, तत्रैकवर्गस्य वर्ग एक एव भवति,
१. प्रतिषु पाठः - तत्रैकवर्गस्य वर्ग खंसं० विना । तत्रैकस्य वर्ग खंसं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org