________________
अनुयोगद्वारसूत्रम् [ सू० ४१९]
४६४ अङ्गुलप्रमाणप्रतरक्षेत्रवर्तिश्रेणिराशेर्यद् द्वितीयवर्गमूलमनन्तरं चतुष्टयरूपं दर्शितं तस्य यो घन: चतुःषष्टिलक्षणस्तत्प्रमाणा: तत्सङ्ख्या: श्रेणयोऽत्र गृह्यन्त इति, प्ररूपणैव भिद्यते, अर्थस्तु स एवेति, तदेवं कल्पनया चतुःषष्टिरूपाणां सद्भावतोऽसङ्ख्येयानां श्रेणीनां य: प्रदेशराशिरेतावत्सङ्ख्यानि नारकाणां बद्धवैक्रियाणि प्राप्यन्त इति, प्रत्येकशरीरित्वान्नारका अप्येतावन्त एव, एवं च सति पूर्वं नारका: सामान्येनैवासङ्ख्येया 5 उक्ता:, अत्र तु शरीरविचारप्रस्तावात्तदप्यसङ्ख्येयकं प्रतिनियतस्वरूपं सिद्धं भवति, एवमन्यत्रापि प्रत्येकशरीरिणः सर्वे स्वकीयस्वकीयबद्धशरीरसङ्ख्यातुल्या द्रष्टव्या: । मुक्तवैक्रियाणि मुक्तौदारिकवद् वाच्यानि। आहारकाणि बद्धान्येषां न सम्भवन्ति, चतुर्दशपूर्वधरसम्भवित्वात् तद्वन्धस्य । मुक्तानि तु मुक्तौदारिकवद्वाच्यानि, मनुष्यभवे कृतोज्झिताहारकशरीराणां प्रतिपतितचतुर्दशपूर्वविदां नारकेषूत्पत्तिसम्भवा- 10 दौदारिकोक्तन्यायेनानन्तानां तेषां सम्भव इति भावः । तैजस-कार्मणानि तु बद्धानि मुक्तानि च यथैषामेव वैक्रियाणि तथा वक्तव्यानि ।।
[सू० ४१९] [१] असुरकुमाराणं भंते ! केवतिया ओरालियसरीरा पन्नत्ता ? गो० ! जहा नेरइयाणं ओरालियसरीरा तहा भाणियव्वा ।
[२] असुरकुमाराणं भंते ! केवतिया वेउव्वियसरीरा पन्नत्ता ? 15 गोतमा ! दुविहा पण्णत्ता । तं०-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालतो, खेत्ततो असंखेजाओ सेढीओ पयरस्स असंखेजइभागो, तासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलस्स असंखेजतिभागो । मुक्केल्लया जहा ओहिया ओरालियसरीरा तहा 20 भाणियव्वा।
[३] असुरकुमाराणं भंते ! केवइया आहारगसरीरा पन्नत्ता ? गो०! - दुविहा पण्णत्ता । तंजहा-बद्धेल्लया य मुक्केल्लया य । जहा एएसिं चेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org