SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ४६३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् सट्ठाणवेउब्वियसरिसाई, सेसाणं वणस्सतिवज्जाणं सट्ठाणोरालियसरिसाइं । हे० ४१८] साम्प्रतं तान्येव नारकादिचतुर्विंशतिदण्डके विशेषतो विचारयितुमाह - नेरइयाणं भंते केवइया ओरालियसरीरेत्यादि । द्विविधानि प्रज्ञप्तानीति यदुच्यते तत्र बद्धानामसद्रूपेणैव नारकेषु सत्त्वमवसेयम्, न सद्रूपेण, अत एवोक्तम्- तत्र यानि 5 बद्धानि तानि न सन्ति, तेषां वैक्रियशरीरत्वेनौदारिकबन्धाभावात्, मुक्तानि तु प्राक् तिर्यगादिनानाभवेषु संभवन्ति, तानि त्वौघिकमुक्तौदारिकवद्वाच्यानि । वैक्रियशरीराणि तु बद्धान्येषामसङ्ख्येयानि, प्रतिनारकमेकै कवैक्रि यसद्भावात्, नारकाणां चासङ्ख्येयत्वात् । तानि च कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि। . क्षेत्रतस्तु प्रतरासङ्ख्येयभागवर्त्यसङ्ख्येयश्रेणीनां ये प्रदेशास्तत्सङ्ख्यानि भवन्ति। ननु 10 प्रतरासङ्ख्येयभागे असङ्ख्येययोजनकोटयोऽपि भवन्ति, तत् किमेतावत्यपि क्षेत्रे या नभःश्रेणयो भवन्ति ता इह गृह्यन्ते ? नेत्याह- तासि णं सेढीणं विक्खंभसूईत्यादि, तासां श्रेणीनां विष्कम्भसूचिः विस्तरश्रेणिः, ज्ञेयेति शेषः । कियतीत्याह- अंगुलेत्यादि, अङ्गलप्रमाणे प्रतरक्षेत्रे य: श्रेणिराशिस्तत्र किलासङ्ख्येयानि वर्गमलानि तिष्ठन्त्यत: प्रथमवर्गमूलं द्वितीयवर्गमूलेन प्रत्युत्पन्नं गुणितं तथा च सति यावत्योऽत्र श्रेणयो लब्धा 15 एतावत्प्रमाणा श्रेणीनां विष्कम्भसूचिर्भवति, एतावत्य: श्रेणयोऽत्र गृह्यन्त इत्यर्थः । इदमुक्तं भवति- अङ्गुलप्रमाणे प्रतरक्षेत्रे किलासत्कल्पनया षट्पञ्चाशदधिके द्वे शते श्रेणीनां भवतः, तद्यथा २५६, अत्र प्रथमवर्गमूलं षोडश १६, द्वितीयं चत्वार: ४, चतुर्भि: षोडश गुणिता जाता चतुःषष्टिः ६४, एषा चतुःषष्टिरपि सद्भावतोऽसङ्ख्येया: श्रेणयो मन्तव्याः, एतावत्सङ्ख्या श्रेणीनां विस्तरसूचिरिह ग्राह्या। अहव णमित्यादि, 20 णमिति वाक्यालङ्कारे, अथवा अन्येन प्रकारेण प्रस्तुतोऽर्थ उच्यते इत्यर्थः । अहव ण त्ति क्वचित् पाठः, स चैवं व्याख्यायते- अथवा नैष पूर्वोक्तः प्रकारोऽपि तु प्रकारान्तरेण प्रस्तुतोऽर्थोऽभिधीयते इति भावः, समुदितो वाऽयं शब्दोऽथवाशब्दस्यार्थे वर्तते । तदेव प्रकारान्तरमाह - अंगुलबीयवग्गमूलघणेत्यादि, १. प्रतिषु पाठाः - गुणिता चतुः खमू०, गुणिता जाता चतुः' खंसं० । गुणिता जाताश्चतुः खं० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy