________________
४५९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविरवृत्तिभिः समेतम्
हे० ४१६-४१७] तथैव तैजसान्याह- केवइया णं भंते तेयगेत्यादि, एतानि बद्धान्यनन्तानि भवन्ति, कालतोऽनन्तोत्सर्पिण्यवसर्पिणीसमयराशिसङ्ख्यानि क्षेत्रतोऽनन्तलोकप्रदेशराशिमानानि, द्रव्यत: सिद्धेभ्योऽनन्तगुणानि अनन्तभागन्यूनसर्वजीवसङ्ख्याप्रमाणानि, तत्स्वामिनामनन्तत्वात् । नन्वौदारिकस्यापि स्वामिनो 5 विद्यन्तेऽनन्ता न च तान्येतावत्सङ्ख्यान्युक्तानि, अत्रोच्यते, औदारिकं मनुष्य-तिरश्चामेव
भवति, तत्रापि साधारणशरीरिणामनन्तानामेकैकमेव, इदं तु चतुर्गतिकानामप्यस्ति, साधारणशरीरिणां च प्रतिजीवमेकैकं प्राप्यते, ततस्तैजसानि सर्वसंसारिजीवसङ्ख्यानि भवन्ति, संसारिणश्च जीवाः सिद्धेभ्योऽनन्तगुणाः, अत एतान्यपि सिद्धेभ्योऽनन्तगुणान्युक्तानि, सर्वजीवसङ्ख्यां तु न प्राप्नुवन्ति, सिद्धजीवानां 10 तदसम्भवात्, सिद्धाश्च शेषजीवानामनन्तभागे वर्तन्ते, अत: सिद्धजीवलक्षणेनानन्तभागेन हीना ये सर्वजीवास्तत्सङ्ख्यान्यभिहितानि । मुक्तान्यपि अनन्तानि, कालतोऽनन्तोत्सर्पिण्यवर्पिणीसमयराशितुल्यानि, क्षेत्रतोऽनन्तलोकानां ये प्रदेशास्तत्तुल्यानि, द्रव्यत: सर्वजीवेभ्योऽनन्तगुणानि, तर्हि जीवराशिर्जीवराशिनैव गुणितो
जीववर्गो भण्यते, एतावत्सङ्ख्यानि तानि भवन्ति ? नेत्याह- जीववग्गस्स अणंतभागो 15 त्ति, सर्वजीवा: सद्भावतोऽनन्ता अपि कल्पनया किल दश सहस्राणि, तानि च तैरेव गुणितानि, ततोऽसत्कल्पनया दशकोटिसङ्ख्यः सद्भावतस्त्वनन्तानन्तसङ्ख्यो जीववर्गो भवति, तस्यानन्ततमे कल्पनया शततमे भागे एतानि वर्तन्ते, अत: सद्भावतोऽनन्तान्यपि किल दशलक्षसङ्ख्यानि तानि सिद्धानि । किं कारणं जीववर्गसङ्ख्यान्येव न भवन्ति?
उच्यते, यानि यानि तैजसानि मुक्तान्यनन्तभेदैर्भिद्यन्ते तानि तान्यसङ्ख्येयकालादूर्ध्वं 20 तं परिणामं परित्यज्य नियमात् परिणामान्तरमासादयन्ति, अत: प्रतिनियतकालावस्थायित्वादुत्कृष्टतोऽपि यथोक्तसङ्ख्यान्येवैतानि समुदितानि प्राप्यन्ते, नाधिकानीत्यलमतिविस्तरेण ४।।
केवइया णं भंते ! कम्मयेत्यादि, तैजस-कार्मणयोः समानस्वामिकत्वात् सर्वदैव सहचरितत्वाच्च समानैव वक्तव्यतेति ५ । तदेवमोघत: पञ्चापि शरीराण्युक्तानि । 25 [सू० ४१८] [१] नेरइयाणं भंते ! केवतिया ओरालियसरीरा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org