________________
४५३ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् तेषां नैकैकजीवस्यैकैकं शरीरं किन्त्वनन्तानामनन्तानामेकैकं वपुरित्यत औदारिकशरीरिणामानन्त्येऽपि शरीराण्यसङ्खयेयान्येवेति ।
तत्थ णं जे ते मुक्केल्लयेत्यादि, भवान्तरसङ्क्रान्तौ मोक्षगमनकाले वा जीवैर्यान्यौदारिकाणि मुक्तानि त्यक्तानि समुज्झितानि तान्यनन्तानि प्राप्यन्ते, 5 अनन्तकस्यानन्तभेदत्वान्न ज्ञायते कियदप्यनन्तकमिदम्, ततः कालेन विशेषयतिप्रतिसमयमेकैकापहारे अनन्ताभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, तत्समयराशितुल्यानि भवन्तीत्यर्थः । अथ क्षेत्रतो विशिनष्टि- खेत्तओ अणंता लोग त्ति, क्षेत्रतः क्षेत्रमाश्रित्यानन्तानां लोकप्रमाणखण्डानां यः प्रदेशराशिस्तत्तुल्यानि भवन्तीति भावः । द्रव्यतो नियमयति- अभवसिद्धिएहिमित्यादि, अभव्यजीवद्रव्यसङ्ख्यातोऽनन्तगुणानि 10 सिद्धजीवद्रव्यसङ्ख्यायास्त्वनन्तभागवर्तीनीति | आह यद्येवं यैः सम्यक्त्वं लब्ध्वा पुनर्मिथ्यात्वगमनतस्त्यक्तं ते प्रतिपतितसम्यग्दृष्टयोऽप्यभव्येभ्यो ऽनन्तगुणाः सिद्धानामनन्तभागे प्रज्ञापनामहादण्डके पठ्यन्ते तत् किमेतानि तत्तुल्यानि भवन्ति ? नैतदेवम्, यदि तत्समसङ्ख्यानि भवेयुस्तदा तथैवेह सूत्रे निर्दिष्टानि स्युः, न चैवम्, ततः प्रतिपतितसम्यग्दृष्टिराशेः कदाचिद्धीनानि कदाचित्तुल्यानि कदाचित्त्वधिकानि इति 15 प्रतिपत्तव्यमिति । पुनरप्याह- ननु जीवैः परित्यक्तशरीराणामानन्त्यमेव तावन्नावगच्छामः, तथाहि - किमेतानि श्मशानादिगतान्यक्षतान्येव यानि तिष्ठन्ति तानि गृह्यन्ते उत खण्डीभूय परमाण्वादिभावेन परिणामान्तरापन्नानि ? यद्याद्यः पक्षस्तर्हि तेषामनन्तकालावस्थानाभावात् स्तोकत्वादानन्त्यं नास्त्येव, अथ चापरः पक्षस्तर्हि स कश्चित् पुद्गलोऽपि नास्ति योऽतीताद्धायामेकैकजीवेनौदारिकशरीररूपतया अनन्तशः परिणमय्य न मुक्तः, ततः 20 सर्वस्यापि पुद्गलास्तिकायस्य ग्रहणमापन्नम्, एवं च सत्यभव्येभ्योऽनन्तगुणानि सिद्धानामनन्तभागे इत्येतद्विरुध्यते, सर्वपुद्गलास्तिकायगतपुद्गलानां सर्वजीवेभ्योऽप्यनन्तानन्तगुणत्वात्, अत्रोच्यते, नैष दोषः, भवदुपन्यस्तपक्षद्वयस्याप्यनङ्गीकरणात्, किन्तु जीवविप्रमुक्ते एकैकस्मिन्नौदारिकशरीरे यान्यनन्तखण्डानि जायन्ते तानि च यावदद्यापि तं जीवप्रयोगनिर्वर्तितमौदारिकशरीरपरिणामं परित्यज्य परिणामान्तरं 25 नासादयन्ति तावदौदारिकशरीरावयवत्वादेकदेशदाहेऽपि 'ग्रामो दग्धः, पटो दग्धः '
Jain Education International
卐
For Private & Personal Use Only
-
www.jainelibrary.org