________________
अनुयोगद्वारसूत्रम् [ सू० ४०५-४१३]
४५२ नेरइयाणं भंते ! कइ सरीरा इत्यादि पाठसिद्धमेव यावत् केवइया णं भंते ! ओरालियसरीरा इत्यादि, कियन्ति कियत्सङ्ख्यान्यौदारिकशरीराणि सर्वाण्यपि भवन्ति। अत्रोत्तरम्- गोयमा ! दुविहेत्यादि, औदारिकशरीरसङ्ख्यायां पृष्टायां बद्धमुक्तत्वलक्षणं तद्वैविध्यकथनमप्रस्तुतमिति चेत्, नैवम्, बद्ध-मुक्तयोर्भेदेन सङ्ख्याकथनार्थत्वात्तस्य । इदं च बद्ध-मुक्तौदारिकादिप्रमाणं क्वचिद् द्रव्येण अभव्यादिना 5 वक्ष्यति, क्वचित्तु क्षेत्रेण श्रेणि-प्रतरादिना, क्वचित्तु कालेन समया-ऽऽवलिकादिना, भावेन तु न वक्ष्यति, तस्येह द्रव्यान्तर्गतत्वेन विवक्षितत्वात् ।।
तत्र बद्धानामौदारिकशरीराणां कालत: क्षेत्रतश्च मानं निरूपयितुमाह- तत्थ णं जे ते बद्धेल्लया इत्यादि, इह नारक-देवानामौदारिकशरीराणि बद्धानि तावन्न सम्भवन्त्येव, वैक्रियशरीरत्वात्तेषाम्, अत: पारिशेष्यात् तिर्यङ्मनुष्यैस्तथाविधकर्मोदयाद् यानि 10 बद्धानि गृहीतानीत्यर्थः, पृच्छासमये तै: सह यानि सम्बद्धानि तिष्ठन्तीति यावत् तानि सामान्यत: सर्वाण्यसङ्ख्येयानि । न ज्ञायते तदसङ्ख्येयं कियदपीत्यतो विशिनष्टिअसंखेजाहिमित्यादि, प्रतिसमयं यद्येकै कं शरीरमपह्रियते तदा असङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिः सर्वाण्यपह्रियन्ते, असङ्ख्येयोत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावन्ति तानि बद्धानि प्राप्यन्त इति परमार्थः । तदेतत् कालतो 15 मानमुक्तम्, अथ क्षेत्रतस्तदाह- खेत्तओ असंखेज्जा लोग ति, इदमुक्तं भवतिप्रत्येकमसङ्खयेयप्रदेशात्मिकायां स्वकीयस्वकीयावगाहनायां यद्ये कैकं शरीरं व्यवस्थाप्यते त सङ्ख्येया लोकास्तैर्धियन्ते, एकैकस्मिन्नपि नभ:प्रदेशे प्रत्येक तैर्व्यवस्थाप्यमानैरसङ्ख्येया लोका भ्रियन्ते एव, केवलं शरीरस्य जघन्यतोऽप्यङ्ख्येयप्रदेशावगाहित्वादेकस्मिन् प्रदेशेऽवगाह: सिद्धान्ते निषिद्ध इति 20 नेत्थमुच्यते, असत्कल्पनया उच्यतामेवमपि को दोष इति चेत्, को निवारयिता ? केवलं सिद्धान्तसंवादिप्रकारेण प्ररूपणेऽदुष्टे लभ्यमाने स एव स्वीकर्तुं श्रेयानिति । आह- भवत्वेवम्, किन्त्वौदारिकशरीरिणां मनुष्य-तिरश्चामनन्तत्वात् कथमनन्तानि शरीराणि न भवन्ति येनासङ्ख्येयान्येवोक्तानि ? उच्यते, प्रत्येकशरीरिणस्तावदसङ्ख्याता एवातस्तेषां शरीराण्यप्यसङ्ख्यातान्येव, साधारणशरीरिणस्तु विद्यन्ते अनन्ता:, किन्तु 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org