________________
४५१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् मर्चिषस्तत्रैवानुप्रविशन्त्यन्योन्याविरोधात्, एवमौदारिकाण्यपीति, एवं सर्वशरीरेष्वप्यायोज्यमिति ।
___ अत्राऽऽह-किमुत्क्रमेण कालादिभिरुपसंख्यानं क्रियते ? कस्माद् द्रव्यादिभिरेव न क्रियते ? अत्रोच्यते-कालान्तरावस्थायित्वेन पुद्गलानां शरीरोपचया इति कृत्वा 5 कालो गरीयान्, तस्मात् तदादिभिरुपसंख्यानमिति । ओरालियाई सम्मत्ताइं ओहियाई
दुविहाई पि । जहेयाइं ओहियओरालियाई एवं सव्वेसि पि एगिंदियाणं भाणियव्वाइं। किं कारणं ?, जं ओहिओरालियाई पि ते चेव पडुच्च वुच्चंति ।
हे० ४०५-४१३] तदत्र नारकादयोऽसङ्ख्येयादिस्वरूपत: सामान्येन प्रोक्ताः, विशेषतस्तु तदसङ्ख्येयकं कियत्प्रमाणमिति न ज्ञायते, औदारिकादिशरीरविचारे च 10 तत्परिज्ञानं सिद्धयति । औदारिकादिशरीरस्वरूपबोधश्च विनेयानां संपद्यते इति चेतसि
निधाय जीवा-ऽजीवद्रव्यविचारप्रस्तावाच्छरीराणां तदुभयरूपत्वाच्च तानि विचारयितुमुपक्रमते - कइ णं भंते सरीरा इत्यादि । ओरालिए त्ति उदारं तीर्थकरगणधरशरीरापेक्षया शेषशरीरेभ्यः प्रधानम्, उदारमेवौदारिकम् । अथवा उदारं
सातिरेकयोजनसहस्र मानत्वाच्छे षशरीरेभ्यो महाप्रमाणम्, तदेवौदारिकम् । 15 वैक्रियमुत्तरवैक्रियावस्थायामेव लक्षयोजनमानं भवति, सहजं तु पञ्चधनुःशतप्रमाणमेव,
तत: सहजशरीरापेक्षया इदमेव महाप्रमाणम् । वेउव्विए त्ति विविधा विशिष्टा वा क्रिया विक्रिया, तस्यां भवं बैंक्रियम्, विशिष्टं कुर्वन्ति तदिति वा वैकुर्विकम् २। आहारए त्ति तथाविधप्रयोजने चतुर्दशपूर्वविदा आह्रियते गृह्यत इत्याहारकम्, अथवा
आह्रियन्ते गृह्यन्ते केवलिन: समीपे सूक्ष्मजीवादयः पदार्था अनेनेत्याहारकम् ३। तेयए 20 त्ति रसाद्याहारपाकजननं तेजोनिसर्गलब्धिनिबन्धनं च तेजसो विकारस्तैजसम् ४।
कम्मए त्ति अष्टविधकर्मसमुदायनिष्पन्नमौदारिकादिशरीरनिबन्धनं च भवान्तरानुयायि कर्मणो विकार: कर्मैव वा कार्मणम् ५। अत्र स्वल्पपुद्गलनिष्पन्नत्वाद्वादरपरिणामत्वाच्च प्रथममौदारिकस्योपन्यासः, ततो बहु-बहुतर-बहुतमपुद्गलनिवृत्तत्वात् सूक्ष्म-सूक्ष्मतर
सूक्ष्मतमत्वाच्च क्रमेण शेषशरीराणामिति । 25 तदेवं सामान्येन शरीराणि निरूप्य चतुर्विंशतिदण्डके तानि चिन्तयितुमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org