________________
४४३ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृतिते-मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् प्रज्ञप्तानि ? गौतम ! द्विविधानि प्रज्ञप्तानि, तदेवाह- जीवदव्वा य अजीवदव्वा य । तत्राल्पवक्तंव्यत्वात् पश्चान्निर्दिष्टान्यप्यजीवद्रव्याणि व्याचिख्यासुराह - अजीवदव्वा णं भंते! कइविहेत्यादि सुगमं यावद् धम्मत्थिकाय इत्यादि, एकोऽपि धर्मास्तिकाय नयमतभेदात् त्रिधा भिद्यते, तत्र सङ्ग्रहनयाभिप्रायादेक एव धर्मास्तिकाय: पूर्वोक्तपदार्थ:, 5 व्यवहारनयाभिप्रायात्तु बुद्धिपरिकल्पितो द्विभाग- त्रिभागादिकस्तस्यैव देशः, यथा सम्पूर्णो धर्मास्तिकायो जीवादिगत्युपष्टम्भकं द्रव्यमिष्यते एवं तद्देशा अपि तदुपष्टम्भकानि पृथगेव द्रव्याणीति भावः । ऋजुसूत्राभिप्रायतस्तु स्वकीयस्वकीयसामर्थ्ये न जीवादिगत्युपष्टम्भे व्याप्रियमाणास्तस्य प्रदेशा बुद्धिपरिकल्पिता निर्विभागाः भागाः पृथगेव द्रव्याणि । एवम् अधर्मा -ऽऽकाशास्तिकाययोरपि प्रत्येकं त्रयस्त्रयो भेदा 10 वाच्याः । अद्धासमय इत्यत्रैकवचनं वर्तमानकालसमयस्यैव एकस्य सत्त्वादतीता
नागतयोस्तु निश्चयनयमतेन विनष्टत्वानुत्पन्नत्वाभ्यामसत्त्वात्, अत एवेह देश-प्रदेशचिन्ता न कृता, एकस्मिन् समये निरंशत्वेन तदसम्भवात् । तदेवं दशविधान्यरूप्यजीवद्रव्याणि । रूप्यजीवद्रव्याणि तु स्कन्धादिभेदाच्चतुर्द्धा, तत्र स्कन्धा द्व्यणुकादयोऽनन्ताणुकावसानाः, देशास्तु तद्विभाग- त्रिभागादिरूपा अवयवाः, प्रदेशाः पुनस्तदवयवभूता एव निरंशा 15 भागा:, परमाणुपुद्गला स्कन्धभावमनापन्नाः एकाकिनः परमाणवः, तानि च रूपिद्रव्याण्यनन्तानि, कथमित्याह- अनंता परमाणुपोग्गला इत्यादि । एते च स्कन्धादयः प्रत्येकमनन्ता: । अथ जीवद्रव्याणि विचारयितुमाह- जीवदव्वा णं भंते! किं संखेज्जा इत्यादि, यस्मान्नारकादिराशयः प्रत्येकमसङ्ख्याताः, वनस्पतयः सिद्धाश्चानन्ताः, अतो जीवद्रव्याण्यनन्तान्येवेत्यर्थः ।
[सू० ४०५] कति णं भंते ! सरीरा पं० ? गो० ! पंच सरीरा पण्णत्ता । तंजहा - ओरालिए वेउव्विए आहारए तेयए कम्मए ।
[सू० ४०६] णेरइयाणं भंते ! कति सरीरा पन्नत्ता ? गो० ! तयो सरीरा पं० । ० - वेडव्विए तेयए कम्मए ।
20
[सू० ४०७] असुरकुमाराणं भंते ! कति सरीरा पं० ? गो० ! तओ अत्र हस्तलिखितादर्शेष्वीदृशः पाठः - इत्यादि स्कन्धादयः खंमू० जेमू१, जेमूर, पा१, २ । इत्यादि एते च स्कन्धादयः खंसं० जेसं१, जेसं२, मां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org