SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [ सू० ३६८-४०४] ४४२ ऽतिक्रामन्त्यतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीमानं प्रस्तुतपल्योपमं ज्ञातव्यम् । सूक्ष्मक्षेत्रपल्योपमे तु सूक्ष्मैर्वालाग्रैः स्पृष्टा अस्पृष्टाश्च नभ:प्रदेशा गृह्यन्ते, अतस्तद् व्यावहारिकादसङ्ख्येयगुणकालमानं द्रष्टव्यम् । आह- यदि स्पृष्टा अस्पृष्टाश्च नभ:प्रदेशा गृह्यन्ते तर्हि वालाग्रैः किं प्रयोजनम् ? यथोक्तपल्यान्तर्गतनभ:प्रदेशापहारमात्रतः सामान्येनैव वक्तुमुचितं स्यात्, सत्यम्, किन्तु 5 प्रस्तुतपल्योपमेन दृष्टिवादे द्रव्याणि मीयन्ते, तानि च कानिचिद् यथोक्तवालाग्रस्पृष्टरेव नभ:प्रदेशैर्मीयन्ते कानिचिदस्पृष्टैरित्यतो दृष्टिवादोक्तद्रव्यमानोपयोगित्वाद्वालाग्रप्ररूपणाऽत्र प्रयोजनवतीति । तत्थ णं चोयए पण्णवगमित्यादि । तत्र नभ:प्रदेशानां स्पृष्टा-ऽस्पृष्टत्वप्ररूपणे सति जातसन्देहः प्रेरकः प्रज्ञापकम् आचार्यमेवमवादीत्- भदन्त ! किमस्त्येतद् यदुत 10 तस्य पल्यस्यान्तर्गतास्ते केचिदप्याकाशप्रदेशा विद्यन्ते ये तैर्वालाग्रैरस्पृष्टाः ? पूर्वोक्तप्रकारेण वालाग्राणां तत्र निबिडतयाऽवस्थापनाच्छिद्रस्य क्वचिदप्यसम्भवाद् दुरुपपादमिदं यत्तत्रास्पृष्टा नभ:प्रदेशा: सन्तीति प्रच्छकाभिप्राय: । तंत्रोत्तरम् - हन्तास्त्येतत्, नात्र सन्देहः कर्तव्यः । इदं च दृष्टान्तमन्तरेण वाङ्मात्रत: प्रतिपत्तुमशक्तः पुनर्विनेयः पृच्छति- यथा कोऽत्र दृष्टान्त: ? प्रज्ञापक आह- से जहानामए इत्यादि। 15 अयमत्र भावार्थ:- कूष्माण्डानां पुंस्फलानां भृते कोष्ठके स्थूलदृष्टीनां तावद् भृतोऽयमिति प्रतीतिर्भवति, अथ कूष्माण्डानां बादरत्वात् परस्परं तानि छिद्राणि संभाव्यन्ते येष्वद्यापि मातुलिङ्गानि बीजपूरकाणि मान्ति, तत्प्रक्षेपे च पुन तोऽयमिति प्रतीतावपि मातुलिङ्गच्छिद्रेषु बिल्वानि प्रक्षिप्तानि, तान्यपि मातानि, एवं तावद् यावत् सर्षपच्छिद्रेषु गङ्गावालुका प्रक्षिप्ता साऽपि माता, एवमर्वाग्दृष्टयो यद्यपि यथोक्तपल्ये 20 शुषिराभावतोऽस्पृष्टान् नभःप्रदेशान्न संभावयन्ति तथापि वालाग्राणां बादरत्वादाकाशप्रदेशानां तु सूक्ष्मत्वात् सन्त्येवासङ्ख्याता अस्पृष्टा नभ:प्रदेशा:, दृश्यते च निबिडतया सम्भाव्यमानेऽपि स्तम्भादौ आस्फालिताय:कीलकानां बहूनां तदन्त: प्रवेश:, न चासौ शुषिरमन्तरेण संभवति एवमिहापि भावनीयम् । यद्येतैर्दृष्टिवादे द्रव्याणि मीयन्ते, तर्हि कतिविधानि भदन्त ! तावद् द्रव्याणि 25 १. अत्रो खं० ॥ २. रेण च संभ जेसं२ विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy